________________ 3 परिच्छेदः। सरखतीकण्ठाभरणम् / आश्रयेषु मुग्धयुवतियथा'सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुष्पं ति। मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआइम् // 5 // [सखीभिर्भण्यमाना स्तनयोलनं कुसुम्भपुष्पं ते। मुग्धवधूहसते प्रोञ्छन्ती नखव्रणानि // ] अत्र मुग्धवध्वाश्रितक्रियाखरूपभणनादियं मुग्धाङ्गनाश्रिता जातिः॥ अर्भकाश्रिता यथा'आक्रोशनाह्वयनन्यानाधावनमण्डलं रुदन् / गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः // 6 // ' अत्रार्भकाश्रितव्यापारखरूपोक्तेरियमर्भकाश्रिता जातिः // . अग्रे गतेनेति / अत्रोद्बाहुनेति यद्यप्यवस्थानमस्ति तथापि तत्परिहारेणोदाहरणमसंकीर्णम् / 'सहिआहि भम्ममाणा षणए लागं कुसुम्भपुष्पं ति / झुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआइम् // ' इत्यत्रैकस्याः कदाचिद्वितर्कायेदमपि वाक्यं बहूनां तु नेति बहुवचनखरसः / कुसुम्भकेसराण्युचेतुं वारंवारमसौ क्षेत्रं प्रविशतीति संभावना / मुग्धा अपरिशीलिताभिमानिकसुखा वधूः प्रथमपरिणीता। प्रस्फोट्यमानामपि त्वया नापसरतीत्यहो तव सौकुमार्यमिति चाटुगर्भ हसितम् / अत एव प्रियतया तस्यानुबन्धो वर्तमाननिर्देशेन व्यज्यते / एतदग्रिमोदाहरणव्याख्याने क्रियाव्यापारग्रहणमुपलक्षणमतो न व्यापारसंकरः / अन्ये त्वाहुः आश्रयावच्छेदेन बहिर्भावोऽत्र मेदहेतुरिति // तिर्यगाश्रया यथा'लोढव्यस्तविपाण्डुराग्रनखयोराकर्णदौण मुखं विम्यस्याग्रिमयोयुगे चरणयोः सद्यो विभिन्न द्विपः / .. एतस्मिन्मदगन्धवासितवटः सावज्ञतिर्यग्वल सकाम्ताहतिधूतलोलमधुषः कुलेषु शेते हरिः // 7 // अत्र सिंहलरूपभणमादियं तिर्यगाश्रया जातिः / /