________________ 314 काव्यमाला / अत्र स्त्रियाः शूलप्रोल्लासनादौ व्यापारे बुद्धिकारितमपि शरीरावस्थानमीदृशं जायत इतीदमवस्थानं नाम जातिभेदः // . पादावष्टम्भेति / उल्लसद्बाहुमूलमिति प्रोल्लसनक्रियाविशेषणम् / सरलितवपुष इति मध्यभागविशेषणम् / अत एव वलीनां विश्लेषो मिथो विभागः उपरिशरीराकर्षणात्कञ्चुकप्रान्तापसरणम् / मुसलोल्लासनादौ दृष्टमिदमबुद्धिजमेव नारीणां रूपमिति भगवतीविषये प्रतिबिम्बनमतिस्फुटमेव / तदाह-आदाविति / वेषो यथा 'छणपिट्टधूसरस्थणि महुमअअम्बच्छि कुवलआहरणे। . 'कस्स की चूअमञ्जरि पुत्ति तुए मण्डिओ गामो // 3 // [क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे / कसकृते चूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः // ] अत्र वसन्तोत्सवे ग्रामतरुणीनामयं वेषो जनमनःप्रमोदाय जायत इति वेषो नामायं जातिभेदः // ___ अत्र वसन्तोत्सव इति / यद्यप्यत्र कालः पात्रं चास्ति तथापि 'संवालणमउलिझविवरउराहइअम्बिरइअउण तालङ्कम् / सिटिलाअन्तं सवणा अरम्भिसारेह एकावि // ' इत्यादौ न संकरः कादाचित्कस्त्वसौ गुण एव वेषस्व कथं रञ्जकतेत्यवशिष्यते / तत्राह-जनमनःप्रमोदायेति / रुच्यर्थित्वमुत्पत्तीनां प्रतिपक्षगतानामक्षुण्णत्वादिति भावः // व्यापारी यथा 'अग्रे गतेन वसतिं परिगृह्य रम्या___ मापात्य सैनिकनिराकरणाकुलेन / यान्तोऽन्यतः सुतकृतखरमाशु दूरा दुबाहुना जुहुविरे मुहुरात्मवाः // 4 // अत्र तादृशि व्यापारे व्यापूतानामीदृशमेव खरूपं जायत इति व्यापारनामायं जातिभेदः / /