________________ 3 परिच्छेदः। सरस्वतीकण्ठामरणम् / 313 तरूपमात्रस्यैव. जातित्वादित्यत आह-तेषु सेति / विशेषेण शोभाहेतुरेव ह्यलंकारः / अस्ति चात्र तथाभाव इति भावः // तत्र स्वरूपं द्विधा / शरीरावयवसंनिवेशलक्षणमतादृशं च / आद्यमपि बुद्धिकारितमतथाभूतं च / तदेतदाह तत्र स्वरूपं संस्थानमवस्थानं तथैव च / वेषो व्यापार इत्याद्यैः प्रभेदैर्बहुधा स्थितम् // 7 // .. तत्र स्वरूपमिति / आदिपदेन वृक्षादिखरूपपरिग्रहः // .. मुग्धाङ्गना कस्तिर्यडीचपात्राणि चाश्रयः। .. देशः कालश्च शक्तिश्च साधनानि च हेतवः // 8 // शक्तिः पदार्थानां सामर्थ्यम् / साधनानि कादीनि षद // तेषु संस्थानं यथा'स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् / ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् // 1 // ' - अत्र धनुर्धरेणैवमङ्गानि सम्यग्बुद्धिपूर्वकं स्थापनीयानीति संस्थानमिदं जातिभेदः // . अत्र धनुर्धरेणेति / तदुक्तम्- 'अपाङ्गे दक्षिणां मुष्टिं वामां विन्यस्य मस्तके / पादमाकुच्चयेद्वामं लक्ष्ये निश्चललोचनः // ' इति / अत्र सर्वस्यैव धनुधरस्यैवंविधशरीरावयवसंनिवेशो भवति न कामस्यैवेति नाश्रयविशेषो विवक्षितः / एवमुत्तरत्रापि // अवस्थानभेदेन यथा'पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्वाहुमूलं शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः / .. विश्लिष्टस्पष्टदृष्टोन्नतविरलवलिव्यक्तगौरान्तराला- .. स्तिस्रो वः पान्तु लेखाः क्रमवशविकसत्कञ्चकप्रान्तमुक्ताः 25