________________ 312 काव्यमाला / नास्त्येवासावर्थालंकारो यः स्वरूपं नाश्रयत इति प्राथम्यं जातेरेवेत्याहतेषु नानावस्थासु जायन्ते यानि रूपाणि वस्तुनः। -- स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जाति प्रचक्षते // 4 // तेष्विति / कालकृतो विशेषोऽवस्था / तामधिकृत्य जायन्ते वस्तुखरूपव्यभिचारिण्युत्पद्यन्ते / नन्वेवं ‘य एते यज्ज्वानः प्रथितमहसो येऽप्यवनिपा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया। अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भगवती // ' इत्यादावपि जातित्वं स्यादित्यत आहखेभ्यः स्वेभ्य इति / खभावभूतानीत्यर्थः / कविप्रतिभामात्रप्रकाशनीयरूपोदृङ्कनं जातिरिति लक्षणम् / लौकिकविकल्पविषयोऽपि प्रतिभया भासत एव / यदाह-रसानुगुणशब्दार्थचिन्तास्ति मितचेतसः / क्षणं विशेषस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः। स हि चक्षुर्भगवतस्तृतीयमिति गीयते / येन साक्षात्करोयेष भावांस्त्रैलोक्यवर्तिनः // ' इति // उक्तमेव विशेषमभिसंधायाह अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते / जायमानप्रियं वक्ति रूपं सा सार्वकालिकम् // 5 // अर्थव्यक्तेरिति / वस्तुस्वरूपोल्लेखनरूपार्थव्यक्तिरर्थगुणेषूक्ता। तत्र सार्वकालिकं रूपमुपजनापायान्तरालव्यापकमित्यर्थः / अत्र तु जायमानमागन्तुनिमित्तं समवधानप्रभवं व्यभिचरितमित्यर्थः / विच्छित्तिप्रकारयोरसंकरात्पृथक्शोभार्पणाच्च युक्तो व्यतिरेकस्तेन खभावोक्तिरेवार्थव्यक्तिरिति यत्केनचिदुक्तं तदपास्तम् / अत एव जात्यन्तरप्रकाराणामपि पृथगलंकारता स्यादिति न युक्तमवान्तरवचसैव व्याघातात् / न हि सामान्यविशेषयोविभागो भवति // स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः / ते संस्थानादयस्तेषु सा विशेषेण शोभते // 6 // स्वरूपमिति / आश्रयविशेषहेतुविशेषव्यतिरिक्तोऽवच्छेदकप्रकारः स्वरूपम् / एतदेव विभजते-ते संस्थानादय इति / ननु किमनेन प्रपञ्चन पूर्वाभिहि