________________ 3 परिच्छेदः] सरस्खलीकण्ठाभरणम् / अत्र हस्ताध्यायपदाध्याययोः कथितत्वाच्चित्राभिनयमिदम् / चतस्रो विंशतिश्चैताः शब्दालंकारजातयः / * शब्दसंदर्भमात्रेण हृदयं हर्तुमीशते // 158 / / इति श्रीराजाधिराजमोजदेवेनविरचिते सरस्वतीकण्ठाभरणनानि ___ अलंकारशास्त्रेऽलंकारनिरूपणं नाम द्वितीयः परिच्छेदः। वृतीयः परिच्छेदः। क्षोभस्फुरितचूडेन्दुखण्डप्रकरविभ्रमाः। ताण्डवाडम्बरे शम्भोरट्टहासाः पुनन्तु वः // 1 // विविच्यमानगम्भीरमूलग्रन्थाकुलान्प्रति / इतोऽप्यतः परं व्याख्या संक्षेपेण निगद्यते // 2 // क्रमप्राप्तार्थालंकारलक्षणाय तृतीयपरिच्छेदारम्भः। तत्र विभागोपयुक्तं सामान्यलक्षणमाह अलमर्थमलंकर्तुं यद्युत्पत्त्यादिवर्मना / ज्ञेया जात्यादयः प्रास्तेऽर्थालंकारसंज्ञया // 1 // अलमर्थमिति / विशिष्टा उत्पत्तियुत्पत्तिर्जातेरवच्छेदकः प्रकारः / आदिशब्दाद्विविधशक्तिप्रतिबन्धादयो विभावनाद्यवच्छेदास्त्रयोविंशतिः / अर्थालंकारसंक्षयेति / अर्थशोभानिवृत्तिहेतुर्विच्छित्तिरर्थालंकार इति स्फुटलक्षणम् // जातिर्विभावना हेतुरहेतुः सूक्ष्ममुत्तरम् / विरोषः संभवोऽन्योन्यं परिवृत्तिनिदर्शना // 2 // विभागान्दर्शयति-जातिरिति // भेदः समाहितं भ्रान्तिर्वितर्को मीलितं स्मृतिः। भावः प्रत्यक्षपूर्वाणि प्रमाणानि च जैमिनेः // 3 // प्रत्यक्षानुमानोपमानसन्दार्थापत्त्यभावाख्यानि जैमिनेः प्रमाणानि षट् / तेनैव क्रमेण लक्षणान्याख्यातुं प्रत्यक्षपूर्वाणीत्युक्तम् / साहित्यस्य सर्वपारिषद्यत्वान्नानादर्शनरीत्युफ्जीक्नमुचितमेव //