________________ काव्यमाला। सात्त्विकाभिनयवद्यथा'वारंवारं तिरयति दृशोरद्गमं बाष्पपूर- . स्तत्संकल्पोपहितजडिम स्तम्भमभ्येति गात्रम् / सद्यः खिद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिलेखाविधिषु नितरां वर्तते किं करोमि // 398 // ' .. अत्र बाष्पजाड्यस्तम्भखेदकम्पानां प्रतिपादितत्वादिदं सात्त्विकाभिनयम् // आहार्याभिनयबद्यथा- . 'चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो _ भस्मस्तोकपवित्रलान्छनमुरो धत्ते त्वचं रौरवीम् / मौा मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं ___पाणौ कार्मुकमक्षसूत्रवलये दण्डोऽपरः पैप्पलः // 399 // " अत्राहार्याभिनयानां प्रतिपादितत्वादिदमाहार्यामिनयम् / / सामान्याभिनयवद्यथा'राहोश्चन्द्रकलामिवाननचरी दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् / आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया कोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् 400' अत्र चतुर्णामभिनयानां प्रयोगादिदं सामान्यामिनयम् // चित्राभिनयवद्यथा'व्यतिकर इंध भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वृतिरुलूय शान्तः / कथमिह न वयस्वस्तत्किमेतत्किमन्य अभवति हि महिना खेन योगेश्वरीयम् // 401 //