________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 309 मण्डलेन तु यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् / . तत्र नेता भवेदेको गोपस्त्रीणां हरियथा // 156 // हल्लीसकमिदम् // रासो यथा'अइ दुम्मणआ अज्ज किणो पुच्छामि तुमम् / जेण जिविज्जइ जेण विलासो पलिहिज्जा कीस जणो 395 [अयि दुर्मनस्क अद्य किं नो पृच्छामि त्वाम् / येन जीव्यते येन विलासः परिह्रियते किमिति जनः // ] तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तं रास एवेत्युच्यते // अङ्गवाक्सत्वजाहार्यः सामान्यश्चित्र इत्यमी। षट् चित्राभिनयास्तद्वदभिनेयं वचो विदुः // 157 // तेष्वाङ्गिकाभिनयवद्यथा. 'दोर्दण्डाः क धृताङ्गदाः क नु शिरानद्धौ भुजौ द्वाविमौ वाणि क नु कान्तिमन्ति बलिमत्केदं ममैकं मुखम् / वाचस्ताः क जितार्णवध्वनिघनाः कायं वचःसंयमो . हेलाकम्पितभूधरः क्व चरणन्यासः क्व मन्दा गतिः 396' अत्राङ्गिकाभिनयानां प्रतिपादितत्वादिदमाङ्गिकाभिनयम् // . वाचिकाभिनयवद्यथा'दुर्वारा मदनशरव्यथां वहन्त्या तन्वङ्ग्या यदभिहितं पुरः सखीनाम् / ... तद्भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति / / 397. // * अन वाचिकाभिनयप्रतिपादनादिदं वाचिकाभिनयम् //