________________ काव्यमाला। तत्राशीयथा 'भूयाद्वः श्रेयसे देवः पार्वतीदयितो हरः / पातु वः परमं ज्योतिरवासनसगोचरः // 384 // अत्राशंसायां लिङ् लोट् च / तदिदं वाक्यद्वयमाशीः // नान्दी यथा'भदं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो अण्णाणं पि परं.पअट्ठदु वरा वाणी छइल्लप्पिआ / वच्छोभी तह माअही फुरदु णो सा किं अ पञ्चालिआ रीदीयो विलिहन्तु कवकुसला जोण्हं चओरा विअ 385 [भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः, अन्येषामपि परं प्रवर्ततां वरा वाणीविदग्धप्रिया / वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाश्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव // ] सेयं रङ्गमङ्गलान्तं वस्त्ययनं नान्दी // नमस्कृतियथा 'जयति ब्रह्मभूः शंभुर्वन्देमहि महेश्वरम् / . इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे // 386 // ' - सेयं स्तुतिर्नमस्क्रिया च नमस्कृतिरेव भवति // .. वस्तुनिर्देशो यथा'अस्त्युद्दामजटाभारभ्रान्तगङ्गाम्बुशेखरः। . आदिदेवो हरो नाम सृष्टिसंहारकारणम् // 387 // * सोऽयं कथाशरीरव्यापिनो वस्तुनो नायकस्य निर्देशो वस्तुनिर्देशः॥