________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 305 इतिहासो यथा 'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैवत / * भयाद्धान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः // 380 // सोऽयमतीतार्थप्राधान्यादितिहासः // . . काव्यशास्त्रं यथा'नान्दीपदानि रतनाटकविघ्नशान्ता वाज्ञाक्षराणि परमाण्यथवा स्मरस्य / दष्टेऽधरे प्रणयिना विधुताग्रपाणि सीत्कारशुष्करुदितानि जयन्ति नार्याः // 381 // ' अत्र काव्येन शास्त्रमभिहितमितीदं काव्यशास्त्रम् // . काव्येतिहासो यथा'स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रयदाश्रयः श्रियाम् / अकारि तस्मै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैदिशे नमः 382' अत्र प्रागुक्तस्यैवेतिहासार्थस्य काव्येनाभिधानात्काव्येतिहासोऽयम् // शास्त्रेतिहासो यथा- 'धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ / यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्त्वचित् // 383 // अत्र धर्मार्थकाममोक्षाणामितिहासनिवेशितत्वादयं शास्त्रेतिहासः॥ श्रव्यं तत्काव्यमाहुर्यवेक्ष्यते नाभिधीयते / श्रोत्रयोरेव सुखदं भवेत्तदपि षड्डिधम् // 140 // आशीर्नान्दी नमस्कारो वस्तुनिर्देश इत्यपि / आक्षिप्तिका ध्रुवा चेति शेषो ध्येयं भविष्यति // 141 // 20 स० क.