________________ 301 काव्यमाला। अत्र य एव प्रश्नाः कः स योजनपादः कः स यो दण्डानां द्वे सहस्र इत्यादयः त एव 'क्रोशो योजनपादः' 'कोदण्डानां द्वे सहसे' इत्यादीन्युत्तराणि भवन्ति / एवं 'का काली का मधुरा किं शुकपृथु. काननच्छायम्' इत्युत्तरं किमभिहितशेषस्य प्रष्टव्यमिति पृष्टप्रश्नम् // उत्तरप्रश्नं यथा"किं वसन्तसमये वनभक्षः पृष्टवान्स पृथुलोमविलेखः / उत्तरं च किमवापतुरेतौ काननादतिमिरादपि काली // 377 // अत्र प्रश्नस्य हे काननाद हे तिमिराद पिकालीत्येतदेवोत्तरं भवतीत्युत्तरप्रश्नमिदम् // यद्विधौ च निषेधे च व्युत्पत्तेरेव कारणम् / तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते // 138 // काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च / काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् // 139 // तेषु काव्यं यथा'यदि स्मरामि तो तन्वीं जीविताशा कुतो मम / अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् // 378 // " तदिदमुक्तिप्राधान्यात्काव्यमित्युच्यते // शास्त्रं यथा 'स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः ____ पादौ सगोपचितचारुनिगूढगुल्फो / श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या . स्तामुदहेद्यदि भुवोऽधिपतित्वमिच्छेत् // 379 // ' अत्र स्निग्धत्वादेः शब्दस्य प्राधान्यमिति शासनाच्छास्त्रमिदम् //