________________ 2 परिच्छेदः।] सरखतीकण्ठामरणम् / अन्तःप्रश्नबहिःप्रश्नबहिरन्तःसमाह्वयैः। : . जातिपृष्टोत्तराभिख्यैः प्रश्नस्तदपि पद्भिधम् // 137 // तेष्वन्तःप्रश्नं यथा____ 'काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् / / कथमुक्तं न जानासि कदर्थयसि यत्सखे // 372 // अत्र 'कदर्थयसि' इति पदं कथमुक्तं रेफयकारयुक्तं दर्थयसीति, अंतो वाक्यान्तरे प्रश्नोत्तरस्योक्तत्वादन्तःप्रश्नमिदम् // ... बहिःप्रश्नं यथा'भद्र माणवकाख्याहि कीदृशः खलु ते पिता / वेलान्दोलितकल्लोलः कीदृशंश्च महोदधिः // 373 // ' अत्र 'मज्जन्मकरः' इत्यस्योत्तरस्य प्रश्नावहिरुक्तत्वाहिःप्रश्नमिदम्॥ बहिरन्तःप्रश्नं यथा... 'सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन्य उत्तरः। स कीहक्कपिमाचष्टे व्योग्नि पूर्णस्थितिः कुतः // 374 // ' अत्र 'वायुतः' इत्युत्तरेण प्रश्नाबहिरुक्तेन वायुतो नरो वानरो भचति, सुभद्रोपयन्ताप्युच्यते / तेनैतद्वहिरन्तःप्रश्नं भवति // जातिप्रश्नं यथा'कीदृशा भूमिभागेन राजा स्नातोऽनुमीयते / प्राङ्गणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः // 375 // 'हैमवार करञ्जिना' 'नाजिरं करवामहै' इत्युत्तराभ्यां गतप्रत्यागताभ्यां प्रश्नोत्तरजातिरभिधीयते / तेन जातिप्रश्नमिदम् // पृष्टप्रश्नं यथा को सो जोअणवाओ को दण्डाणं दुवे सहस्साई / ... का काली का मधुरा किं शुकपृथुकाननच्छायम् // 376 // '