________________ 302 ! काव्यमाला। संबन्धगूढं यथा'न मयागोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि / अस्थानरुदितैरेभिरलमालोहितेक्षणे // 368 // ' अत्र न मे आगोरसाभिज्ञं चेत इति संबन्धिपदस्य मयेति तृतीयाभ्रान्त्या गोपितत्वादिदं संबन्धगूढम् // पादगूढं यथा'युवियद्गामिनी तारसंरावविहतश्रुतिः / हैमीषु माला शुशुभे (विद्युतामिव संहतिः) // 369 // अत्र पूर्वार्धस्थितैर्द्वितीयप्रथमसप्तमपञ्चमैकादशनवमत्रयोदशषोडशाक्षरैश्चतुर्थपादो गूढ उत्थाप्यः / यथा-'विद्युतामिव संहतिः' इति / इदं पादगूढम् // अभिप्रायगूढं यथा'जइ देअरेण भणिआ खग्गं घेत्तूण राउलं वच्च / ता किं सेवअवहुए हसिऊण वलोइअं सअणम् // 370 // [यदि देवरेण भणिता खड्ने गृहीत्वा राजकुलं व्रज / तत्किं सेवकवध्वा हसित्वावलोकितं शयनम् // ] अत्र निरीक्षितमनेनात्र पुरुषायितलक्ष्म पादलाक्षादिकं, तेन नियुङ्क्ते मां न कर्मणीत्यभिप्रायेण वध्वाः शयनावलोकनमित्यभिप्रायगूढम् // - वस्तुगूढं यथा 'पानीयं पातुमिच्छामि त्वत्तः कमललोचने / यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् // 371 // अत्र दास्यसीति दासीलक्षणस्य वस्तुनो गूढत्वादिदं वस्तुगूढम् // यस्तु पर्यनुयोगस्य निर्भेदः क्रियते पदैः। विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः // 136 //