________________ 2 परिच्छेदः। सरखतीकण्ठामरणम् / इत्यनेन श्लोकेनोक्तार्थस्य यथास्थितखरानुखारविसर्जनीयसंयोगस्य श्लोकोत्तरस्य बिन्दुभिरेव सूचनाक्रम इति बिन्दुमती / तद्यथा '700000000 00 / ... .. . ... .. .. // निर्भेदः। उदधावुदधावाज्ञा संयुगे संयुगे जयः / साहसे साहसे सिद्धिः सर्वत्र तव कीर्तयः / / 364 // अर्थप्रहेलिका यथा_ 'उत्तप्तकाञ्चनाभासं संदष्टदशनच्छदम् / सरसं चुम्ब्यते हृष्टैर्वृद्धैरपि किमुज्ज्वलम् // 365 // सेयमपि सूचितस्यैव पक्काम्रफलमित्यस्य व्यर्थपदप्रयोगेणावगतेरर्थप्रहेलिका // क्रियाकारकसंबन्धे पदाभिप्रायवस्तुभिः। र गोपितैः षड्डिधं प्राहुगूढं गूढार्थवेदिनः // 135 // - तेषु क्रियागुप्तं यथा'स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः / कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः // 366 // " अत्र जघनभराभिराममन्दं मदिरेक्षणाया गमनमवलोकयन्तो हे युवानः, कथमिव यूयं मदनशरज्वरजर्जरा न स्थेति क्रियापदस्य स्तनशब्देन जघनसांनिध्यागोपितेन क्रियागूढमिदम् // कारकगुप्तं यथा... "पिबतस्ते शरावेण वारि कहारशीतलम् / केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ // 367 // अत्र शराविति कर्मकारकस्य गूढत्वात्कारकगूढमिदम् //