________________ - काव्यमाला / अत्र विहङ्गिका काहारेण वर्जिता न यातीति वक्तव्ये हारेण वर्जितेत्युक्तम् / अतः का इत्यक्षरस्य च्युतत्वारयुताक्षरेयम् // . . दत्ताक्षरा यथा'कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः / मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः // 359 // ' अत्र शबर इति शम्बर इत्यनुखाराक्षरस्य दत्तत्वाद्दत्ताक्षरेयम् / च्युतदत्ताक्षरा यथा--.. 'विदग्धः सरसो रागी नितम्बोपरि संस्थितः / तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः // 360 // ' अत्र विट इत्यसिन्पदे विकारे च्युते धकारे दत्ते घटः कूजतीति द्वितीयोऽर्थो भवतीति सेयं च्युतदत्ताक्षरा // अक्षरमुष्टिका यथा'अतिः अतिः अन्मअलं प्रीद्य रद्य जद्य फद्य / मेला मेला मेलं मेलं फस फस फस फस / / 361 // ' . सेयमक्षराणां मुष्टिरित्यक्षरमुष्टिका / अत्र पादशश्चतुःपतिलिखितचतुर्भिर्मुरजबन्धैः श्लोक उचिष्ठति / तद्यथा 'अद्य मे सफला प्रीतिरध मे सफला रतिः। अद्य मे सफलं जन्म अद्य मे सफलं फलम् // 362 // बिन्दुमती यथा'तवाववादः प्रत्यब्धि पताका प्रतिसगरम् / / फलं प्रत्यद्भुतोपायं यशांसि नतु न कचित् / / 363 // '