________________ 2 परिच्छेदः] सरस्वतीकण्ठाभरणम् / 299 . चित्रोक्तिर्द्विधा / चित्रा विचित्रा च / तयोश्चित्रा यथा-. 'लभ्यन्ते यदि वाञ्छितानि यमुनाभागीरथीसंगमे . देव प्रेष्यजनस्तदेष भवतो भर्तव्यतां वाञ्छति / नन्वेतन्मरणेन किं नु मरणं कायान्मनोविच्युति दीर्घ जीव मनस्तवाङ्ग्रिकमले कायोऽत्र नस्तिष्ठति // 356 // तदिदं खंकल्पितोक्तिप्रत्युक्तिभ्यां जीवतोऽपि जन्मान्तरावाप्तिसाधनेनाश्चर्यहेतुरिति चित्रा नाम चित्रोक्तिप्रत्युक्तिर्वाकोवाक्यम् // द्वितीया यथा- .. ... .. .. 'कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कमा. स्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं क्वास्ति मे / पश्यामीत्यभिधाय सान्द्रपुलको मृद्गन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्दयूते हसन्वो हरः // 357 // अत्रोक्तिप्रत्युक्त्योरनन्तरं स्तनमर्दनवैचिन्यादिना परिसमाप्तेर्विचित्रसंज्ञमिदं वाकोवाक्यम् // .... प्रहेलिका सकृत्प्रश्नः सापि पोढा च्युताक्षरा / दत्ताक्षरोभयं मुष्टिविन्दुमत्यर्थवत्यपि // 133 // .. क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमत्रणे। .. परव्यामोहने चापि सोपयोगा प्रहेलिका // 134 // तासु च्युताक्षरा यथा “पयोधरभराक्रान्ता संनमन्ती पदे पदे / / पदमेकं न, का याति यदि हारेण वर्जिता // 358 //