________________ 288 -: काव्यमाला / / कन्दोदोल्लासलासी जयति शिवशिखामण्डनीभूतखण्डो . ! दत्तज्योत्स्नाजलौघो विहितनिजरतिर्विभ्रमाणां बलेन // ] - विहरणे संचरणे सफलः / उद्भूतः शुभाशुभसूचकत्वात् / मेलिकारी संगमकारी, ' चूडामणित्वात् / ऐक्यकारी वा, तन्मूर्तित्वात् / कन्दोदं कुमुदमिहाभिमतं तद्विकासेन लसनशीलः / ज्योत्स्नाजलौघान्ददत् / विभ्रमाणां बलेन विहिता निजे आत्मनि रविर्येन स तथा // समसंस्कृतेन पादगोमूत्रिका यथा'बाला विलासावलिहारिहासा लोलामला भावसहा सहावा / .. देहं हरन्ती सहसा सुरामा गेहं चरन्ती सहसाभिरामा // 335 // विलासावलिषु हारी हासो विकासो यस्याः / लोला चला / अमला निर्मला / भावाननेकविधान्या सहते सा भावसहा / हावः क्रीडाविशेषः // अर्धगोमूत्रिकाप्रस्तारो यथा 'नमो दिवसपूराय सुतामरसभासिने / नतभव्यारिदाराय सुसारलयभाविने // 336 // दिवसान्पूरयतीति दिवसपूरः तस्मै / सुत्रु तामरसेषु भासनशीलाय / नता भव्या यस्मै / अरीन्दारयतीत्यरिदारः / ततः कर्मधारयः / नतानां भव्यानामरिदार इति वा, नता भव्या अरिदारा यस्मिन्निति वा / मुष्ठु सारो लयस्तत्र लयनं तं भावयति यस्तस्मै // अत्र गोमूत्रिकाश्लोकोऽयमुत्तिष्ठति / 'नतदिव्यासदाराय सुसामलसभासिने / नमो भवारिपूराय सुताररयभाविने // 337 // . .. नता दिव्या देवा यस्मै / असदविद्यमानमरि चक्रं यस्य / ततः कर्मधारयः / शोभनानां साम्नां लसनेन भासनशीलाय / भानि नक्षत्राण्यावरितुं शीलं यस्येति भवारि आकाशं पूरयति व्याप्नोति एवंभूताय / सुत्रु तार-उच्छ्रितो यो रयो वेगो गमनं तेन भाविने //