________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / द्वितीयश्लोको यथा'कामदं चण्डकसं मदामर्दिनो नागदन्ताज्यजय्यं गदाकर्बुरम् / धीरशोमाभरव्यस्तकंसासुरं नौमि नारायणस्थासमं विश्रमम् // 332 // ' अभाग्यस्य रदं विलेखकम् / नाशकमिति यावत् / समिती संग्रामे रावणस्य कैलासोद्धरणभनशक्तिकताशासनविक्रमावाज्ञापौरुषे येन तम् / वाञ्छितप्रदम् / चण्डमुग्रं कर्मे कमनीयं च। परेषां दर्पमर्दनशीलस्य नागस्य कालियाख्यस्य दंष्ट्राभिः, कुवलयापीडाख्यस्य हस्तिनो वा विषाणाभ्यां या आजिः सङ्ग्रामः तत्राजय्यं जेतुमशक्यम् / गदया नानारत्नखचितया कर्बुरम् / चित्रमिति यावत् // संस्कृतप्राकृतगोमूत्रिकायां संस्कृतश्लोको यथा'स्कन्दो रुन्दर्द्धिमिष्टां वितरतु सरलो दारितारातिवर्गे __ सस्पन्दो मन्दसज्जो भवभयकलने सङ्गरे केलिकारी / संदोहोल्लाघलासी जन इह बलिहा चण्डताभूरखो देवौजोराजदेहे महिमनि निरतो विक्रमाडम्बरेण // 333 // ' स्कन्दः कार्तिकेयः / रुन्दा विपुलाम् / दारिते शत्रुसमूहे सस्पन्दः स्फुरद्र्पो मन्दः खस्थचित्तः भवभयस्य संसारत्रासस्य कलने क्षेपणे इहजने मर्त्यलोके संदोहेन य उल्लाघः सामर्थ्य नीरोगत्वात्तेन लसनशीलः / बलिनां हन्ता / चण्डतायास्तैक्ष्ण्यस्य भूराश्रयः / अखर्वः सर्वेषामुपरि वर्तमानः / देवाजसां राज्ञां खण्डयित्री ईहा चेष्टा यत्र तादृशे महिनि निरतः // . प्राकृतश्लोको यथा'चन्दो कन्दप्पमित्तं विहरणसहलो हारितारापबन्धो सच्छन्दो वन्दणिज्जो कुवलयदलनो सङ्करे मेलिकारी। कन्दोदोल्लासलासी जअइ सिवसिहामण्डनीभूदखण्डो देन्ताजोण्हाजलोहो विहिअणिअरई विन्भमाणं बलेण 334' [चन्द्रः कन्दर्पमित्रं विहरणसफलो हारिताराप्रबन्धः स्वच्छन्दो वन्दनीयः कुवलयदलनः शंकरे मेलिकारी /