________________ 286 काव्यमाला। द्वितीयो यथादेयान्नश्चण्डधामा सलिलहरकरो रूढकन्दारविन्दो देहे रुग्भङ्गरागः सुरमनुजदमं त्यागसंपन्निधानम् / भन्दं दिक्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो ऽदैत्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः // 328 // ' . पुराख्यदानवस्य दवो दावाग्निः स्त्यानायाः घनायाः संविदो निदानम् / दैत्याधीशेनान्धकेनानतचरणः / भव्यानामुत्तमानां भाव्यो ध्येयः / रूढकन्दान्यरविन्दानि यस्मात् / प्रणतानां रुगनुरागो यस्य / सुराणां मनुजानां च दम दमतीति वा / त्यागसंपदो निधानमाश्रयः / दिशां क्षोभदायिका श्रीर्यस्य / सदे उपवने सदरा सभया या वधूस्तदीयानां खण्डनागिरां निर्भर्त्सनवचसामविषयः / अदैत्यैधी न दैत्यवर्धनः / संसारबन्धविच्छित्तये विस्तीर्णरयो नयो यस्य / शं सुखं पिपर्ति पूरयतीति शंपरो दिव्यः सेव्यश्चेति / एवंविधश्चण्डधामा रविनॊऽस्माकं देहे भन्दं कल्याणं देयादित्यर्थः // विपरीतगोमूत्रिकायां प्रथमश्लोको यथा'विनायकं दानसुगन्धिवकं स्मिताननं मन्दचरं कथासु / नमामि विघ्नावलिहारिसारं सतीसुतं शंकरवल्लभं च // 329 // ' विपरीतश्लोको यथा'चलल्लतारब्धशमं सुभासं संसारहारं बहुविप्रमान्यम् / सुधाकरं चन्द्रमसं नतोऽस्मि सवर्णगर्भ नवकम्बुनाढ्यम् // 330 // ' मन्दचरं मन्दालसगमनम् / कथासु भक्तदेवानां वार्तासु महाशयतया स्मेराननम्। विघ्नपरम्पराहारिणां च सारमुत्कृष्टम् / चलन्तीनां लतानामारब्धं सान्त्वनं येन / बहुविप्रमान्यं द्विजराजशेखरत्वात् / समानवर्णमध्यगम् / नवेन कम्बुनाढ्यमुपचितम् / आद्यश्लोकस्याधस्ताविपरीतो द्वितीयश्लोको लेख्यः / ततः क्रमगोमूत्रिकया परस्परोल्लेखः // भिन्नच्छन्दोगोमूत्रिकायां प्रथमश्लोको यथा'नमत चन्द्रकलामयमण्डनं नगसुताभुजसंगतकन्धरम् / हरमभाग्यरदं स्तवसादरं समितिरावणशासनविक्रमम् / / 331 // '