________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / चोपक्रम्य द्वितीयचतुर्थपादसंदंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका // युग्मतो यथा- . .. 'देवः शशाङ्कशकलाभरणः पिनाकी देयः शमैकविकलेभरणः सनागः / चित्ते महासुरजनेन शुभं विधत्तां चित्तं महासुरजनानतभङ्गधन्वा // 325 // महासुरजनेन ब्रह्मादिना चित्ते देयो धारणीयः / शमेनैकेन विकलीकृत इभरणो गजानामुरुयुद्धं येन / शुभं कल्मषरहितं चित्तं विधत्ताम् , अविशेषेण संसारिणामेव / अत्र पूर्ववत्समपदमुपक्रम्य विषमपादसंदंशेन समाप्तिरिति विशेषस्तेनेयं युक्पादगोमूत्रिका // . अर्धश्लोकगोमूत्रिका यथा'चूडापोतेन्दुभागद्युतिदलिततमस्कन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा / .. क्रीडाधूतेशभामा धुसदनतनिमच्छेदनी च ध्रुवा नो देहे देवी दुरीरन्दममरतनता नन्दिनोमान्यधामा // 326 // इन्दोर्भागः खण्डं / शं कल्याणं / अमरजनता देवसमूहः। नास्त्यन्यद्धाम स्थानं यस्य सोऽनन्यधामा। खात्माराम इत्यर्थः। न परं देवो देवी च / ध्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति संबन्धः। धूतेशभामा प्रणयेनापहृतपरमेश्वरप्रणयरोषा / 'भाम क्रोधे' इति धात्वनुसारात् / धुसदना देवाः / / अरतमविश्रान्तं नन्दिना नता उमा गौरी / अपूर्वं धाम तेजो यस्याः॥ श्लोकगोमूत्रिकायां प्रथमश्लोको यथा'पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो ..देव्या रुद्धाङ्गभागः पुरदनुजदवस्त्यानसंविन्निदानम् / कंदर्पः क्षोदपक्षः सरससुरवधूमण्डलीगीतगर्यो दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः // 327 //