________________ काव्यमाला। 'वरकारप्रदं धीरं तारधामाऽसमासिका। सा लतामालयाऽमाऽप ताराभाऽतिरसागता // 323. // ' तालतरोर्यत्सारं खाद्यभागस्तत्प्रभेवावदाता प्रभा यस्याः / राका पूर्णिमा / तारकापतिना चन्द्रेण दंशिता कवलिता। मारस्य कामस्य धाम स्थानं यत्र / रमया लक्ष्म्या अधीताभ्यस्ता / सलक्ष्मीकेत्यर्थः / वलयामास चालितवती, बलवन्तं वा चकार / 'विन्मतोलुक्' इत्यनुशासनात् ॥-क्रमेणैवेति / तुर्याच पादप्रथमाक्षरादुपक्रमे येन येन मार्गेण मुरजाकृतिर्लभ्यते तेनायमपरः श्लोको भवति // वरस्य ईप्सितस्य वस्तुनः कारः कारणं तत्प्रदं तारं दीप्तं धाम कान्तिर्यस्याः / असमा अनन्यसाधारणी आसिका स्थितिर्यस्याः सा नायिका लतामालया संकेतलतामण्डपेन अमा सार्धं आप प्राप्तवती / तारा रोहिणीप्रभृतिस्तदात्मा, तारेनिर्मलमौक्तिकैर्वा भाति या / अतिशयितेन रसेन पूर्णा उपगता संगता / प्रकृतोदाहरणेऽष्टाक्षरप्रस्तावान्तःपाती यः प्रकारस्तदन्तःपाती मुरजाक्षरैर्लभ्यते // उदाहरणमात्रं चैतत् , तेन गतिविचित्रादिगोमूत्रिकादयोऽन्येऽपि चित्रप्रकारा भवन्ति / गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव / . गोमूत्रिकेति तत्प्राहुर्दुष्करं चित्रवेदिनः // 115 // तेषु पादगोमूत्रिका यथा 'काङ्क्षन्पुलोमतनयास्तनपीडितानि वक्षःस्थलोथितरयाञ्चनपीडितानि / .... पायादपायभयतो नमुचिप्रहारी _मायामपास्य भवतोऽम्बुमुचां प्रसारी // 324 // सेयमयुग्मतः पादगोमूत्रिका // ननु यावदुदाहृतमेव किं गत्यादि चित्रं, तथा सति किं गोमूत्रिकादीनां पृथग्भागविभागव्याघातः स्यादित्यत आह—उदाहरणमात्रं चैतदिति / गतिः पठितिसंचारो वर्णानामुच्चावचं वोर्ध्वाधःपर्यायेण प्रवृत्ता / मायां संसारबन्धमपास्य दुःखभयात्पायादिति संबन्धः // न्यासो यथा-अयुग्मतः प्रथमात्तृतीया