________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् ) 283 मुरजबन्धो यथा.___'सा सेना गमनारम्भे रसेनासीदनारता / - तारनादजना मत्तधीरनागमनामया // 320 // अत्र पादचतुष्केपि क्रमशः परिलेखिते / श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी // 112 // अनारता अविच्छिन्नप्रहरणव्यापारा आसीत् / मत्तधीरनागमिति क्रियाविशेषणम् / रसेन वीरेण / महाप्राणशब्दजना // अत्र न्यासमाह-अत्र पादेति / अत्र पुटचतुष्ककल्पनया मुरजत्रयोन्मेषः // एकाक्षरमुरजबन्धो यथा'सुरानन त्वां न न हाननष्टये पुनः स्तुवेऽनर्घघनप्लवाननम् / मनस्यनूनव्यसनप्रधूननं सकाननस्थाननदीननर्दनम् // 321 // श्लोकस्यैतस्य पादेषु लिखितेषु चतुर्वपि / त्रिमृदङ्गकरीह स्थाचतुरेकाक्षरावली // 113 // सुराणां देवानामाननं मुखं तद्भूत वढे / हाननष्टये हानिनाशाय त्वां न न स्तुवे, किंतु स्तौम्येव / पुनरिति देवतान्तरव्यावृत्तौ स्तुत्यावृत्तौ वा / अनर्थे घनौघप्राणने यस्मात् / 'अन प्राणने' इति धात्वनुसारात् / प्रणतानां मनसि यदनूनमनादिभवपरम्परानुपाति व्यसनं तस्य प्रधूननं प्रतिक्षेपकम् / सकाननेषु वनगहनेषु स्थानेषु नदीनस्य पयोराशेरिव नर्दनं कोलाहलो यस्येति / न्यासमाह-श्लोकस्यैतस्येति / प्रथमपादस्थादक्षरादारभ्य चतुर्थपादस्थमक्षरं यावदेकजातीयाक्षरचतुष्कावली गृहीत्वा परावृत्य तज्जातीयानामेव चतुष्टयी गृह्यते / तेनैकमुरजोन्मुद्रणमपरत्राप्यनेनैव प्रकारेणात्रोदाहरणे एकाक्षरमुरजत्रयी भवतीति न्यासार्थः // सुरजप्रस्तारो यथा 'तालसारप्रभा राका तारकापतिदंशिता / .. मारधाम रमाधीता वलयामास सागरम् // 322 // क्रमेणैवास्य पादेषु प्रसृतेषु चतुर्वपि / तुर्यान्मुरजमार्गेण श्लोकोऽयमुपजायते // 114 //