________________ 282 काव्यमाला। द्वारिका सर्वनामतामाहुः / गणे चान्यतरशब्दं न पठन्ति / अव्युत्पत्तिमात्रं चेदम् / अनिर्धारितैकाभिधायकस्त्वन्यतमशब्दःn .. शरयन्त्रबन्धो यथा 'नमस्ते जगतां गात्र सदानवकुलक्षय / / समस्तेऽज सतां नात्र मुदामवन लक्षय // 317 // चतुलपि च पादेषु पतिशो लिखितेष्विह / आदेरादेस्तु रङ्गस्य पादैः पादः समाप्यते // 318 // . नमस्त इत्यादि / जगतां नामरूपप्रपञ्चस्य गात्रभूत दानवकुलक्षयेण सहित मुदां हर्षाणां रक्षक अज विष्णो, अत्र जगति सतां मध्ये न कोऽपि ते तव समः। ततो लक्षय दृक्पातेनानुगृहाण / मामिति शेषः // न्यासमाह-चतुर्वपीति / शेष सुबोधम् // व्योमबन्धो यथा'कमलावलिहारिविकासविशेषवहं ,जनकाङ्क न नगामिकरं दिवि सारमनारमणं जरतां न / तमसां बलहानिविलासवशेन वरं जनकान्त न नमामि चिरं सवितारमनादिमहं जगतां न // 319 // अष्टादशशिखरचरी गोमूत्रिकया चतुष्पदीं पश्येत् / यत्राद्यन्तैदृष्टां स ज्ञेयो व्योमबन्ध इति // 111 // कमलावलिषु पद्मखण्डेषु प्रशस्तेषु हारी मनोज्ञो यो विकास विशेष]स्तस्य वोढारं जनैलॊकैः स्तुत्यं तदीयं कं शिरस्तत्राङ्क चिह्नभूत, न नगामिकरं, किंतु विसृत्वरकिरणमेव दिवि वैमानिकपथे सारभूतं जरतां परिणतानामनारमणं न, किंतु प्रीतिकरमेव / तमसां बलहानौ यो विलासवशः संततो व्यापारस्तेन वरमुत्कृष्टं, जनकान्त लोकहृदयंगम, जगतामनादि न, कित्वादिमेव / एवंविधं भगवन्तं सवितारमहं न नमामि किंतु नमाम्येव // न्यासमाह-अष्टादशेति / आद्यन्तैदृष्टामिति / पादाद्यन्तवर्णयोरैक्यादिति बोध्यम् //