________________ 2 परिच्छेदः / ) सरखतीकण्ठाभरणम् / - द्विशृङ्गाटकबन्धो अथा- . .. ! 'करासञ्ज वशेशं खगौरव स्य कलारसम् / संधाय वलयां शङ्कामगौरी मे वनात्मक // 313 // शृङ्गाद्रन्थि पुनः शृङ्गं ग्रन्थि शृङ्गं व्रजेदिति / द्विशृङ्गाटकबन्धेऽस्मिन्नेमिः शेषाक्षरैर्भवेत् // 314 // अत्राङ्कः-'राजशेखरस्य // द्वे शृङ्गाटके मिथो वैपरीत्येन यत्र शिखरं द्विशृङ्गाटकम् / करैः किरणैरासञ्जयतीति करासजः / खे व्योम्नि गौरवं यस्य स तथा / वनात्मक जलखरूप / चन्द्रकलासु रसमनुरागं संधाय कृत्वा. अन्तःखच्छतया. दृश्यनभोभागनेमिमद्वलयाकारोल्लेखिनी मे ममागौरीं श्यामां शङ्कामपनय / स्य इति क्रियापदम् / पूर्णो भवेति यावत् / वशेशमायत्तशंकरमिति क्रियाविशेषणम् // न्यासमाह-शृङ्गादिति / शेषाक्षरैरिति / आद्यात्ककारादारभ्य यावत्समाप्ति शेषाण्यक्षराणि तैर्नेमिरिति न्यासः। अत्र ग्रन्थिवगैरेव 'राजशेखरस्य' इति नामाङ्कवर्णावली लभ्यते // - विविडितबन्धो यथा _ 'सा सती जयतादत्र सरन्ती यमितात्रसा / - सारं परं स च जयी शमितास्यन्दनेनसा // 315 // शिखरादन्यतरस्मात्प्रतिपर्व भ्रमति रेखयाद्यर्धम् / नेमौ तदितरमधे विविडितचक्राभिधे बन्धे // 316 // विविडितबन्धस्तु पञ्चशृङ्गचक्रम् / तद्देवताम्नाये दर्शितम् / 'कर्पूरकुन्दगौरी तनुमतनुं कार्मुकभ्रकाम् / वरदानसुन्दरकरां विविडितचक्रस्थितां वन्दे // ' सेति। प्रसिद्धानुभावा सती गौरी सरन्ती निरर्गलप्रसरा न त्रस्यतीत्यत्रसा। अस्यन्दनेन स्थिरेण एनसा कल्मषेण शमिता विक्लवीभूता / रहितेति यावत् / 'शम वैकल्ये। अत्र जगति परं सारं यं भगवन्तमिता संगता / स च जयी महेश्वरो जयतादिति न्यासमाह-शिखरादिति / अन्यतमाद्वा' इति पाठः / 'अन्यतमस्मात' इति पाठे तु सर्वनामत्वं चिन्त्यम् / केचित्तु 'किंयत्तदेकान्येभ्यः' इति. पठित्वा डतम