________________ 240 - काव्यमाला। आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि / तदिदं सर्वतोभद्रं सर्वतो भ्रमणं यदि // 110 // तयोरर्धभ्रमं यथा 'ससत्वरतिदे नित्यं सदरामर्षनाशिनि / त्वराधिककसन्नादे रमकत्वमकर्षति / / 309 // 'ससत्वेति / सदराः सभयाः / त्वराधिकानां कसन्नितस्ततः संचरन्नादो यत्र / अत एव वीरान्प्रति रमकत्वमकर्षति // सर्वतोभद्रं यथा- . 'देवाकानिनि कावांदे वाहिकाखस्वकाहि वा / काकारेभभरेऽकाका निखभव्यव्यभखनि / / 310 // 'कनी दीप्तौ' / देवानाकनितुं शीलं यस्य / कावाद ईषद्वादो यत्र / कस्य मस्तकस्य सन्ना संगता आदा ग्रहणं यत्रेति वा / वाहिका पर्यायवहनम् / 'पर्यायार्हणोत्पत्तिषु' इति ण्वुच् / सैव खं वित्तभूता येषामेवंविधा ये खका आत्मपक्षीयास्तानाजिहीते इति विच् / के मदजलमाकिरति इति काकारस्तादृश इभभरो हास्तिकं यत्र / हेऽकाकाः सात्त्विका इति संबोधनम् / काकाः सङ्ग्रामलोलुभा वा / क्वचित्कर्तयपि घनू / निःस्वा निरात्मानो भव्या आधेयगुणास्तानपि व्ययन्ति खबलेनोपळहयन्ति ये ते निखभव्यव्यास्तेषां भवनि भर्त्सनशीले / 'भस भर्त्सने' इत्यतः क्वनिप् // बन्धचित्रेषु द्विचतुष्कचक्रबन्धो यथा 'जयदेव नरेन्द्रादे लम्बोदर विनायक / जगदेधन चन्द्राभालविदन्तविभायते // 311 // - इह शिखरसंधिमालां बिभृयादधं समाश्रितैर्वर्णैः। द्विचतुष्कचक्रबन्धे नेमिविधौ चापरं भ्रमयेत् // 312 // जयद इत्यादि / नता इन्द्रादयो यस्मै स तथा। जगतामेधन वर्धन / चन्द्राभालकिनी चन्द्रकान्तिविजयिनी दन्तप्रभाणामायतिर्यस्य स तथा // न्यासमाहइहेति / शिखरमालां संधिमालां च पूर्वार्धवर्णैः क्रमेण बिभृयात्पूरयेत् / नेमिविधौ चापरमुत्तरार्ध भ्रमयेत् //