________________ 2 परिच्छेदः। सरखतीकण्यभरणम् / 279 तदर्थानुगतं यथा'विदिते दिवि केऽनीके तं यान्तं निजिताजिनि / विगदं गवि रोद्धारो योद्धा यो नतिमेति न // 305 // ' अत्र प्रातिलोम्येन स एव पदार्थः // विदित इत्यादि / विदिते खर्वासिनामपि प्रसिद्ध निजिताः परेषामाजयो युद्धानि येन तादृश्यनीके समरे प्राप्तं गवि पराह्वानरूपायां वाचि विगदं हृदयज्वररहितं के नाम भंटा योद्धारः / न केऽपि सन्तीत्यर्थः / तं कम् / यो योद्धा सन्कथमपि नतिं नम्रतां नैति न याति / अत्र तदर्थक एव प्रतिलोमश्लोकः / स यथा-'नतिमेति न योद्धा यो रोद्धारो विगदं गवि / निजिताजिनितं यातङ्केनीके विदिते दिवि' // तुरङ्गपदं यथा--- 'बाला सुकालबाला का कान्तिलालकलालिता। सखा सुतवती सारा दर्पिका व्रतगर्धित // 306 // " क्रमात्पादचतुष्केऽस्य पतिशः परिलेखिते / तुरङ्गपदयातेन श्लोकोऽन्य उपजायते // 307 // यथा 'बाला ललिततीव्रखा सुकला रागतर्पिका / सुदन्तिका वर्धितावासा काला तललासका // 308 // ' बालेत्यादि / बाला षोडशवर्षदेशीया शोभनकृष्णकेशी कान्तिप्रदचूर्णकु. न्तलशोभिता सखा आत्मसंपद्युक्ता सुतवती पुत्रयुक्ता उत्कृष्टाभिमानात्मकशृङ्गारवती अभिलषितस्वविवाहादिव्रताकाला अतस्तं भजखेति / हृदये इति शेषः // न्यासमाह-क्रमादिति / ललितो मनोजस्तीवः प्रवीणः ख आत्मा यस्याः / रागेण प्रेम्णा तर्पयति या। शोभनदन्तयुक्ता / वर्धितावासा संपूर्णीकृतसकलस्थाना। कालो मृषाव्याहारस्तेन सह वर्तते या। तले लासका नर्तका यस्याः सा तथाभूता। अधःकृतसकलनर्तकलोकेत्यर्थः / एवंभूता सा बाला त्वयोपभुक्तेति वाक्यार्थः //