________________ 278 काव्यमाला / अत्र प्रातिलोम्येनापरः श्लोको भवति / यथा 'निध्वनज्जवहारीभा भेजे रागरसात्तमः / ततमानवजारासा सेना मानिजनाहवा // 302 // वाहनेति / ततोऽनन्तरं वाहना सेनाऽनमा नतिशून्याजनि जाता। साराजावुत्कृष्टसङ्ग्रामे मानासे परमानक्षेपके मत्ताः सारगाः सोत्कर्षगतिशालिनो राजेभा राजदन्तिनो यत्र / भारिणः स्वामिनार्पितसमरभराः अत एव यथोचितचेष्टावन्तस्तेषां जनानां ध्वनिः सिंहनादो यत्रेति क्रियाविशेषणमित्यनुलोमश्लोकार्थः / निवनन्तः स्तनन्तो जवेन वेगेन हारिण इभा यत्र / ततो विस्तीर्णो मानवजारासः सैनिककृत आरावः कोलाहलो यत्र / मानिजनानां साहंकाराणां वीराणामाहवो द्वन्द्वयुद्धं यत्र / ईदृशी सेना रागरसात्परलक्ष्मीहरणरसेन तमो भेजे क्रोधमवापेति प्रतिलोमश्लोकार्थः // भाषान्तरगतं यथा 'इह रे बहला लासे बाला राहुमलीमसा / सालका रसलीला सा तुङ्गालालि कलारत // 303 // अत्र प्रातिलोम्येनापरः प्राकृतश्लोको भवति / यथा 'तरला कलिला गातुं सालाली सरकालसा / सामली महुरालावा सेलाला हव रेहइ // 304 // ' इह रे इत्यादि / लासे नृत्ये बहला असंकुचिता राहुमलीमसा श्यामा सालका भूकर्णादिपरभागार्पकचूर्णकुन्तलवती रसाच्छृङ्गाराल्लीला यस्याः सा, तथा तुङ्गा उच्चव्यवहारा एवंविधा सा बाला हे चतुःषष्टिकलारत, अलालि लालिता त्वयेति संस्कृतश्लोकार्थः / कला गीतवाद्यनृत्यानां संकरीकरणसहिता पटीयसी मातुं तरला त्वरिता सालाली नानावृक्षपतिस्तदीयेन सरकेण मधुना अलसा / श्यामा मधुरालापा सेला उत्तमा नारी। 'सेला स्यादुत्तमा नारी' इति देशीकोशे / सह इरमा मदिरया वर्तन्ते सेला वा / रलयोरेकत्वस्मरणादिति केचित् , तच्चिन्त्यम् / अला भूषयित्री। हव धवेति संबोधनम् / रेहइ राजते / प्राकृतश्लोकार्थः / एवं भाषान्तराणामपि गतप्रत्यागती बोद्धव्ये॥