________________ 277 2 परिच्छेदः / सरखतीकण्ठाभरणम् / स्थिर / अक्षीणेनोपचितेन चञ्चद्बुवा साह्लादेन गवा वृषेण लक्षित / तध्यमिति क्रियाविशेषणम् / चिन्तिता गुप्तिर्भूतानां रक्षा येन / चारो रमणीयः / उग्रो महादेवः / त्वमप्रांशुः सर्वस्मादुच्चैःपदे स्थितः / भवानीरुचा वामार्धस्थितपार्वतीकात्या रम्यस्तन्विति संबन्धः // अत्र पूर्ववदेव न्यासः / अङ्कास्तु चत्वार इति विशेषः // गतिचित्रेषु गतप्रत्यागतं यथा 'वारणागगभीरा सा साराभीगगणारवा / कारितारिवधा सेना नासेधावरितारिका // 299 / ' अत्रायुक्पादयोर्गतिः, युक्पादयोः प्रत्यागतिः // . इदानीं गतिचित्रप्रस्तावः-वारणेत्यादि / वारणा एव अगाः पर्वतास्तैर्गभीरा दुरवगाहा / सारा श्रेष्ठा / भियं येन यान्ति तादृशानां गणानामारवो यत्र / सारो वा भीगगणारवो यत्र / कारितः कृतोऽरीणां वधो यया / खार्थे णिच् / आसेधः परैः प्रतिषेधस्तेन हीना / वरिताः सुभटैयुद्धार्थमाहूता अरयो यस्यां सा तथा / 'वर ईप्सायाम्' इति धातोः क्तप्रत्यये वरितेति रूपसिद्धिः / अत्रायुक्पादयोः प्रथमतृतीययोरानुलोम्येन वर्णावली गृहीत्वा तत्प्रतिलोमरूपौ युक्पादौ द्वितीयचतुर्थी गृह्यते / पठितेर्वर्णाद्वर्णान्तरसंचारो गतिस्तन्नियमनेन चित्रं गतिचित्रं स चात्र यथोक्तरूप एव // तदक्षरगतं यथा_ 'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा। चारुणा रमते जन्ये को भीतो रसिताशिनि // 300 // अत्र गतप्रत्यागताभ्यां स एव श्लोकः // हे अमरणा मरणरहिताः, निशितखड्गरतो भयशून्यश्च रुचा तेजसा न्येजते न कम्पते / यो हि भीतः स कथं शब्दायमानाशनशीलरक्षःपिशाचादिसंकुले जन्ये सङ्ग्रामे चारुणा करितुरगादिना रमते / न कथंचिदित्यर्थः / अत्र संदर्भसमाप्तिपर्यन्तं या वर्णमाला गृहीता सैव समाप्तेरारभ्य प्रत्यागल्या यावदारम्भं समाप्यत इति पूर्वं त्वर्धेनैवमिति // __ श्लोकान्तरं यथा-- 'वाहनाजनि मानासे साराजावनमा ततः / / मत्तसारगराजेभे भारीहावजनध्वनि // 301 // ..