________________ 276 काव्यमाला।। त्तिष्ठति तदाह-राजशेखरकमल' / कविकाव्यनामलाभादविभक्तिकत्वमप्यदोषः। एतेनेति / नामाङ्कपद्मकथनेन चक्रमपि नामाङ्कमवसेयम् // चक्रं यथा'स त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिच्दा / मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे रेकौषैः समकालमभ्रमुदयी रोपैस्तदातस्तरे // 296 // ' . पुरः पुरो लिखेत्पादानत्र त्रीन्षडरीकृतान् / तुर्य तु भ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधिः // 297 // अत्राङ्कः- 'माघकाव्यमिदं शिशुपालवधः' // स त्वमित्यादि / हरेर्नादं सिंहनादं रोपैर्बाणैराजिरभसात्सङ्ग्रामहर्षादुद्धरतरश्रीवत्सभूमिरुन्नतहृदयः स त्वमालम्ब्य मानेन तद्विशिष्टमिति विशेषणम् / प्राप्तपापविनाशो मुदा हर्षेण अपगतभीः शत्रुर्हरिणव्याधोऽभ्रमाकाशं पिदधे तदा तस्मिन्काले सिंहनादमुक्त्वेति संबन्धः // म्यासमाह-पुर इति / पुरः पुरो लिखित्वान्यानग्रे लिखेद्यथा षडराः संपद्यन्ते // एवं चतुरङ्कमपि यथा 'शुद्धं बद्धसुरास्थिसारविषम त्वं रुग्जयातिस्थिर ___भ्रष्टोद्धर्मरजःपदं गवि गवाक्षीणेन चञ्चद्भुवा / तथ्यं चिन्तितगुप्तिरस्तविधिदिग्भेदं न चक्र शुचा___ चारोऽप्रांशुरदभ्रमुग्र तनु मे रम्यो भवानीरुचा // 298 // अत्राङ्कः-'शुभ्रतरवाचा बद्धचितिचक्र राजगुरुणेदं सादरमवादि। यथा वा-शुद्धमित्यादि / चक्रं मे मम गवि वाचि शुद्धमकलुषम् , धर्मादुकान्तमुद्धर्ममीदृशं यद्रजो राजसभावस्तस्य पदं स्थानं तद्भष्टं विनष्टं यस्मात् / अस्ता विधिदिग्दैवपारतन्त्र्यं यत्र तथाविधं, शुचा शोकेन च न वक्रीकृतमनपहत. मदभ्रमुपचितं यद्भद्रं कल्याणं तत्तनु विस्तारयेति प्रार्थना / बद्धैरलंकारीकृतैः सुराणां ब्रह्मादीनां सारं शिरस्तदस्थिभिर्बद्धमुण्डमालाभिर्भयानक / रुजां रोगाणां जयेनाति