________________ 285 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / गोमूत्रिकाधेमुर्यथा'मम स्फुरतु चिद्गतः सततचिन्त्यरक्षामतिः -- समस्तरविचित्रितस्तुतरुचिः स्मरक्षेमकृत् / समर्द्धिरतचिन्तितः कृतविचित्ररत्यामयो नमस्करणचिह्नितस्मितरुचिर्हरः सामरः // 338 / / चतुर्णामपि पादानां क्रमेण व्युत्क्रमेण च। इयं गोमूत्रिकाधेनुर्वैपरीत्यवशेन च // 116 // मम स्फुरत्विति / मम चिद्गतो मदीयां संविदमारूढः सामरः सदेवो हरः स्फुरतु / सततं चिन्तनीये रक्षामती वा यस्य / समस्तैदशभिरपि रविभिरादित्यैश्चित्रिता आलेख्यीकृता स्तुता प्रशस्ता रुचिः कान्तिर्यस्य / स्मरस्य क्षेमं कुशलं कृन्तति छिनत्तीति स्मरक्षेमकृत् / समशब्दः सर्वपर्यायो गणे पठ्यते / सर्वासु अणिमाद्धिषु रतैश्चिन्तितः प्रसभं ध्यातः / पतिवियोगाद्विचित्राया रतेरामयाः कृता येन / नमस्कारेण चिह्निता प्रणामपृच्छाभाविनी प्रसादजन्मा स्मितप्रभा यस्य स तथा // अस्या न्यासमाह-चतुर्णामिति / क्रमेण पादानां नैरन्तर्येण प्रथमद्वितीयाभ्यां द्वितीयतृतीयाभ्यां प्रथमचतुर्थाभ्यां द्वितीयचतुर्थाभ्यामिति व्युत्कमभेदास्त्रयो वैपरीत्यवशेन चतुर्थादितः प्रथमं यावद्योजनेनानापि क्रमव्युत्क्रमाभ्यां षद प्रकाराः / तेऽमी द्वादश भेदाः शुद्धाः / एषां व्यतिकरजन्मानः पुनरन्ये चतुर्विशतिभवन्ति / तद्यथा-प्रथमतृतीयाभ्यां च प्रथमद्वितीयाभ्यां च प्रथमचतुर्थाभ्यां च द्वितीयतृतीयाभ्यां च प्रथमचतुर्थाभ्यां च तृतीयचतुर्थाभ्यां च प्रथमतृतीयाभ्यां चेति द्रष्टव्यम् / तदेवमेक एव गोमूत्रिकालोको यथोक्तरीत्या षत्रिंशद्गोमूत्रिकातर्णकान्प्रसूत इतीयं गोमूत्रिकाधेनुः // शतधेनुर्यथा'वन्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलयदना पुरन्ध्यधिदेवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्रयनायिका। सिद्धैर्यया केसरियाना काम्या रणचतुररसिकहृदया त्रिलोचनवल्लभा धीरैः पूज्या दर्पणपाणिनूनं गुणनिलयलटभललिता सतीषु धुरंधरा // 19 स. क.