________________ 274 काव्यमाला। एवं चतुष्पत्र-पोडशपत्रे अपि द्रष्टव्ये // न शशीशेत्यादि / शशीशे चन्द्रे नवे भावे भक्तौ / स्थित इति शेषः / त्वामहं न नमामि / काका नमाम्येव / नमन् भन्नः कामो यस्मात् / नतमुपनतं व्रतं यस्य संयमिधीरेयत्वात् / माननमनं शत्रूणामुन्नतिनाशनम् / नन्विति पूजासंबोधने / त्वा इति त्वाम् / अनुनयन् विनयं कुर्वाणोऽयम् // न्यासमाह-प्राकर्णिकामिति / पूर्व कर्णिकायामाद्यो नकारो ग्राह्यः, ततः शेति पर्णमध्ये, शीति पर्णाग्रे, परावृत्य पर्णकर्णिकयोः शकारनकारी, पुनः कर्णिकातो दलाग्रगमागमेऽपि / अयमेव क्रमश्चतुर्दलपने // तयोश्चतुष्पत्रं यथा'सासवा त्वा सुमनसा सा नता पीवरोरसा / सारधामैति सहसा साहसर्ध सुवाससा // 290 // ' कर्णिकातो नयेदूवं पत्राकाराक्षरावलीम् / प्रवेशयेत्कर्णिकायां पद्ममेतञ्चतुर्दलम् // 291 // सासवेत्यादि / सासवा आस्वादितमदिरा / पीवरेण स्तनाब्येनोरसा नता सारधामा उत्कृष्टकान्तिः संहसा सहास्या अकस्माद्वा शृङ्गारोद्दीपनखभावेन मार्गशीर्षण हेतुना शोभनेन वाससा च लक्षिता हे साहसर्ध सर्वनिशीथाभिसरण साहसरसिक, त्वामेति उपगच्छतीति // न्यासमाह-कर्णिकेति / सुबोधमेतदिति / षोडशपत्रं यथा 'नमस्ते महिमप्रेम नमस्यामतिमद्दम / . क्षामसोम नमरकाम धामभीम समक्षम // 292 // गोमूत्रिकाक्रमेण स्युर्वर्णाः सर्वे समाः समाः / मध्ये मवर्णविन्यासात्पद्मोऽयं षोडशच्छदः // 293 // षोडशपत्रमाह-नमस्त इत्यादि / महिमनि प्रेमा यस्य तत् / नमस्य अमतिमतो दाम्यतीति अमतिमद्दम / क्षामः कलामात्रेण चूडासंगतः सोमो यस्य / नमन् भन्नः कामो यस्मात् / धाम्ना तेजसा भीम भयानक / समा सकलव्युत्थानहेतुसाधारणी क्षमा यस्य / यस्यैतानि संबोधनविशेषणानि ते तुभ्यं नमस्कुरुते