________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / अत्र कर्णिकायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च / प्रवेशनिर्गमौ दिक्षु कुर्यादष्टदलाम्बुजे // 285 // या श्रितेत्यादिकमुदाहरणं प्रागेव (प० 1 श्लो० 170) व्याख्यातम् / अतः 'परं हारिहरिव्याख्या। साप्यत्रैव लिख्यते / तद्यथा-या देवी पवित्रत्वेनाश्रिता अनीचया तुझ्या बुद्ध्या मायायामस्याविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया यतो यातनं नरकानुभवनीयं दुःखं छिनत्ति श्रियापि स्तुतेति // अस्य न्यासमाह-कर्णिकायामिति / आद्यो यावर्णः कर्णिकायां श्रितेति पावेति क्रमेण द्विकं द्विकमष्टपत्रेषु / याश्रिता श्रियेत्यादौ दिग्दलेघु प्रवेशनिर्गमौ // द्वितीयमष्टदलं यथा "चरस्फारवरक्षार वरकार गरज्वर / चलस्फाल वलक्षालवल कालगल ज्वल // 286 / ' अष्टधा कर्णिकावर्णः पत्रेष्वष्टौ तथापरे / - तेषां संधिषु चाप्यष्टावष्टपत्रसरोरुहे // 287 // / / चरस्फारेत्यादि / संचरणशीलः स्फारो यो वरस्तं क्षरति ददाति इति / वराञ्छ्रेष्टान् किरति क्षिपति कृणोति हिनस्ति वेति कर्मण्यण् / गरः कालकूटस्तस्य ज्वरो ज्वरणात् / ताण्डवारम्भे चलाः स्फाला यस्य / वलक्ष धवलदेह, अलवल प्राप्तशक्ते, कालगल नीलकण्ठ, ज्वल दीप्यमानो भवं // न्यासमाह-अष्टधेति / अथ प्रथमार्धे एक एव रेफोऽष्टधा कर्णिकायाम् / अपरार्धस्यान्येऽष्टौ लकारवर्ज 'दलेषु तेषां संधिष्वन्येऽष्टौ लकाराः // तृतीयमष्टपत्रं यथा. 'न शशीशनवे भावे नमत्काम नतव्रत / नमामि माननमनं ननु त्वानुनयन्नयम् / / 288 // ' अत्र प्राक्कर्णिकां पुनः पर्ण पर्णायं पर्णकर्णिके / प्रतिपर्ण व्रजेद्धीमानिह त्वष्टदलाम्बुजे // 289 // 18 स. क.