________________ 272 काव्यमाला। तत्र रतियैषाम् / परा श्रेष्ठा गतिर्ज्ञानं येषां ते तथा / एवंविधाः कुरवः खद्विषो कुलमुरु विस्तीर्ण रुरुधुः / तदेव गुरु महत् दुधुवुः कम्पयामासुः // चतुःखरेषु दीर्घवरं यथा'आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः / भोगो रोगो मोहो मोदो ध्येये वेच्छेत्क्षेमे देशे // 281 // ... आम्नायानां वेदानामन्त्या वागुपनिषत् सा हिताहितप्रतिपादनपरां किमाह / या गीतयस्ता ईतय उपसर्गाः / याः प्रीतयस्ता भीतयो भयानि / यो भोगः स रोगः। यो मोदो हर्षः स मोहः / न परमेवमाह / किंतु यावद्ध्येये ध्यातव्ये क्षेमे क्लेशरहिते देशे विषये मोक्षलक्षणे इच्छेदिच्छां कुर्यादिति / वाशब्दः समुच्चये / अन्ये चकारमेव पठन्ति // प्रतिव्यञ्जनविन्यस्तखरं यथा'तापेनोग्रोऽस्तु देहे नो हेये विल्लोभिनिन्दिना। जायाने हि गुणिप्रेष्ठे हितोऽक्षेपोऽमृतोक्षिणि // 282 // हेये हातव्ये वस्तुनि या विल्लाभः / 'विद् लाभे' इति धात्वनुसारात् / तत्र के लोभिनो लोभवन्तस्तन्निन्दनशीलेन तापेन तेजसार्थादुरश्चण्डरश्मिः स नः मम देहेऽस्तु / तेजस्वी भवानीति यावत् / किमित्येवमाशास्यत इत्यत आह–अमृतस्यन्दिनि कान्ताग्रे गुणिनां प्रियतमेऽक्षेपोऽविलम्ब एव हितोऽर्थतः समरस्य / 'इति दत्त्वाशिषं कोऽपि खस्मै कार्मुककर्मणे / जगाम समरं कर्तुमरिलक्ष्मीस्वयंवरम् // ' तदेवापास्तसमस्तस्वरं यथा 'तपन प्रस्तदहन यवल्लभनन्दन / ":: .. जयग्रह गणप्रष्ठ हतक्षप मतक्षण // 283 // ' ग्रस्तदहन अभिभूतपावक / हयवल्लभो रेवन्तः स तनयो यस्य / हतक्षप अपहृतरात्र / मतक्षण संमतोत्सव // आकारचित्रेष्वष्टदलं यथा. याश्रिता पावनतया यातनच्छिदनीचया / .. ..' याचनीया धिया मायायामायासं स्तुता श्रिया.॥ 284 //