________________ 2 परिच्छेदः। सरखतीकण्ठाभरणम् / 271 माह-मुत्सु हर्षेषु लुलुभुः / पुपुषुः पुष्टा बभूवुः / नु वितर्के / मुहुर्महुवारर्वारं किं मुमुहुर्मोहमासादितवन्तः / यतः कोशनादीनामव्यवस्थेति भावः // . दीर्घकखरं यथा 'वैधेरैनैरैशैरैन्द्ररैजैरैलैजनैः सैद्धैः / मैत्रै धैर्यवैरैर्दैः खैः खैरवस्तैस्तैः // 277 // विधिर्विरिञ्चिः, ई लक्ष्मीस्तस्या इनः प्रभुर्विष्णुः, ईशो महादेवः, इन्द्रो वासवः, ईजः कामो लक्ष्मीपुत्रत्वात् , इला पृथ्वी, जिनो बुद्धः, सिद्धा देवविशेषाः, मित्रः सूर्यः, रैदो धनदः कुबेरः, देवा उक्तव्यतिरिक्ता मरुदादयः, एषां संबन्धिभियेभृतिभिः खैर्वित्तैश्च नैकैरनेकविधैस्तैस्तैः प्रसिद्धरूपैरहं खरैः सुष्ठु आसमन्तात्समृद्धो भवानीत्याशंसा / वै वाक्यालंकारे // हखद्विखरं यथा'क्षितिस्थितिमितिक्षिप्तिविधिविन्निधिसिद्धिलिट् / मम त्र्यक्ष नमदक्ष हर स्मरहर स्मर // 278 // क्षितिः पृथ्वी तस्याः स्थितिः पालनं मितिर्मानं क्षिप्तिः संहारस्तद्विधिं वेत्ति / निधिसिद्धी लेढीति क्विए / नमन् भमतेजा दक्षो यस्मात् / स्मरहर कामदहन, त्र्यक्ष त्रिनयन, हर महादेव, मम स्मर / अधीगर्थयोगे कर्मणि षष्टो॥ दीर्घद्विखरं यथा'श्रीदीप्ती ह्रीकीर्ती धीनीती गीःप्रीती। एधेते द्वे द्वे ते ये नेमे देवेशे // 279 // श्रीदीप्ती लक्ष्मीतेजसी / ह्रीकीर्ती लज्जायशसी / धीनीती बुद्धिनयौ / गी:प्रीती बाक्प्रमोदौ / इमे ये देवेशेऽपि न स्वस्ते द्वे तव एधेते वर्धते // त्रिखरेषु इखत्रिखरं यथा'क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः / उरु रुरुधुर्गुरु दुधुवुः खमरिकुलं युधि कुरवः // 280 // ' क्षितेर्विजितिः विजयः, स्थितेर्वर्णाश्रममर्यादालक्षणाया विहितिर्विधानं तदेव व्रतं