________________ 2 परिच्छेदः / ] सरखतीकण्ठामरणम् / 269 निस्तालव्यं यथा-- 'स्फुरत्कुण्डलरलौघमघवद्धनुकर्बुरः। मेघनादोऽथ सङ्ग्रामे प्रावृट्कालवदाबभौ // 268 // " कुण्डलरत्नौघ एव मघवतो धनुस्तेन कर्बुरो मेघनादनामा राक्षसः / इचुय. शास्तालव्याः // निर्दन्त्यं यथा- ................ ......... 'पाप्मापहारी रणकर्मशौण्डश्चण्डीशमिश्रो मम चक्रपाणिः / भूयाच्छ्यिापश्रमयेक्ष्यमाणो मोक्षाय मुख्यामरपूगपूज्यः // 269 // चण्डीशमिश्रः परमेश्वरेणैकशरीरतामापन्नः / मुख्यामरा ब्रह्मादयः। लतुलसा दन्त्याः // निरोष्ठयं यथा नयनानन्दजनने नक्षत्रगणशालिनि / अघने गगने दृष्टिरङ्गने दीयतां सकृत् // 270 // .. - अघन इति / शरत्कालशोभया दृश्यतमे / उपूपध्मानीया ओष्ठ्याः // निर्मूर्धन्यं यथा. 'शलमा इव धावन्तः सायकास्तस्य भूभुजः / -निपेतुः सायकच्छिन्नास्तेन संयुगसीमनि // 271 // ' ... तेन कपिलेन राज्ञा / तस्य कोसलाधिपस्य प्रसेनजितः / ऋटुरषा मूर्धन्याः // त्रिस्थानचित्रेषु निरोष्ठयदन्त्यं यथा'जीयाज्जगज्येष्ठगरिष्ठचारश्चक्रार्चिषा कृष्णकडारकायः / हरिर्हिरण्याक्षशरीरहारी खगेशगः श्रीश्रयणीयशय्यः // 272 / / निरोठ्यदन्त्यमिति / अनेनैव द्विकान्तरपरिहारेण लोष्टप्रस्तावो गवेषणीयः / तथोत्तरत्रामि // ...