________________ 268 काव्यमाला / षड्जादिवरव्यञ्जनं यथा‘सा ममारिधमनी निधानिनी सामधाम धनिधामसाधिनी / . मानिनी सगरिमापपापा सापगा समसमागमासमा // 265 // " .. षड्जादीति / 'सरिगामपधानिश्च वर्णाः सप्त खरादयः / षड्जादिकृतसंकेता दृष्टा गान्धर्ववेदिभिः // ' तन्मात्रव्यञ्जनमयं षड्जादिव्यञ्जनम् / सह एन विष्णुना वर्तते इति सा लक्ष्मीः / अरीन् धमति तापयति इति धमतेयुटि बहुलवचनमन्यत्रापीति धमादेशः / एवंविधा मम भूयादिति शेषः / निधानिनी पद्मादिनिधानवती / साम्नः सान्त्वस्य धाम गृहम् / धनिनां धामसाधिनी तेजःप्रसाधिका / मानिनी पूजावती / सगरिमा गौरववती / अपपापान्निष्कलुषान् पातीत्यपपापपा / सेति प्रसिद्धविभवा आपगा नदी / समः तत्तुल्यः , क्षणविसपी भङ्गुरः समागमो यस्याः सा तथा / असमा अनुपमा // मुरजाक्षरव्यञ्जनं यथा'खरगरकालितकण्ठं मथितगदं मकरकेतुमरणकरम् / तडिदिति रुरुमुण्डहरं हरमन्तरहं दधे घोरम् // 266 // मुरजेति / 'पाठाक्षराणि मुरजे लहकारी तथदधाच्छमौ रेफः / नणकखगपडाश्चेत्थं षोडश भरतादिकथितानि // तन्मात्रविरचितं मुरजाक्षरव्यञ्जनम् / सुबोधमुदाहरणम् // चतुःस्थानचित्रेषु निष्कण्ठ्यं यथा'भूरिभूतिं पृथुप्रै तिमुरुमूर्ति पुरुस्थितिम् / विरिञ्चि सूचिरुचिधीः शुचिभिर्नुतिभिर्धिनु // 267 // वर्णवत्स्थानेष्वपि चतुरादिनियमेन चित्रम् / यद्यपि च 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा / जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च' इति, तथापि जिह्वामूलीयस्य खरत्वादुरस्यनासिक्ययोः काव्यप्रवेशाभावादुरोनासिकाजिह्वामूलपयुदासेन स्थानपञ्चके चतुरादिनिरूपणम् / हे सूचिरुचिधीः शुचिभिः शुद्धाभिर्नुतिभिः स्तुतिभिर्यथोक्तविशेषण विरिञ्चिं ब्रह्माणं धिनु प्रीणयेति / अकुहविसर्जनीयाः कण्ठ्याः॥