________________ 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / 267 ननु नानानना विविधाकारवदना गणा ऊचेन हीनेन नुन्नो जितो ना न न पुरुषः / तथा नुन्न इनः प्रभुर्यस्य सोऽप्यात्मनि जीवति नाना पुरुषोऽपुरुष एव / यतो ननुन्नेनोऽजितप्रभुर्नुन्नोऽप्यनुन्न एव / तथा नुन्ननुन्नः जित इव क्लीबतया पराभूत इति / 'प्रकारे गुणवचनस्य' इति द्विरुक्तिः। तमपि यो नुदति सनानेना न निष्पापः बन्धच्छायापकान्यवर्णगुरुत्वोन्मेषमात्रप्रयोजकस्तकारो न वृत्तिशरीरान्तर्गत इति द्विव्यजनता नाशङ्कनीया // क्रमस्थसर्वव्यञ्जनं यथा'कः खगौघाङचिच्छौजा झाञोऽटौठीडडण्ढणः / तथोदधीन्पफर्वाभीमयोऽरित्वाशिषां सहः / / 263 // क्रमस्थेति / वर्णसमानाये येन क्रमेण कादयो मावसानाः पठितास्तेन क्रमेण व्यञ्जननिवेशः / कः खगौघस्तत्तत्प्रसिद्धावदानपक्षिसमूहस्तमश्चतीति क्विनि संयोगान्तलोपे कृते च खगौघाडिति रूपम्। चितं संविदं छयति छिनत्तीति चिच्छं यदोजस्तन्नास्ति यस्यासावचिच्छौजाः। 'झमु अदने' अस्मात् क्विप् / 'अनुनासिकस्य क्विझलोः 6 / 4 / 16' इत्युपधादीर्घः / 'मो नो धातोः 8 / 2 / 64' इति नकार इति झान् परबलभक्षको ज्ञः पण्डितः / 'स्तो श्रुना श्रुः 8 / 4 / 40' इति नकारस्य अकाराः / अटाः सङ्ग्रामाङ्गणपर्यटनशीलाः सुभटास्तानोठते बाधत इति क्विप् / 'उठ गतौ' इति धातो रूपम् / तेषामीडीश्वरः / अडण्ढणोऽचपलः / डण्ढण इत्यव्युत्पन्नं चपलवाचि प्रातिपदिकम् / तथा अभीर्भयरहितः एवंविधः को नामायमुदधीन् पफर्ब पूरयामासेति प्रश्नः / उत्तरम्-अरीन् लुनन्ति या आशिषस्तासां सहः क्षमो मयो दैत्यराज इति॥ छन्दोक्षरव्यञ्जनं यथा"सरत्सुरारातिभयाय जाग्रतो जलत्यलं स्तोतृजनस्य जायताम् / स्मितं स्मरारेगिरिजास्यनीरजे समेतनेत्रत्रितयस्य भूतये // 26 // छन्दोक्षरेति / 'म्यरस्तजनगा लान्ताश्छन्दोविचितिवेदिभिः / दशैव वर्णा निर्णीताश्छन्दोरूपप्रसिद्धये // ' तन्मात्रव्यञ्जननिबद्धछन्दोक्षरव्यञ्जनम् / सुबोधमुदाहरणम् //