________________ 266 . काव्यमाला / पञ्चप्रमृतिनियमेन तथाशक्तिव्युत्पत्त्योरुत्कर्ष इति चतुरादि गृह्णाति-तत्रेति। अवश्यं योद्धा जाजी / जजेयुद्धार्थादावश्यके णिनिः / जजा युद्धशौण्डास्तेषामोजसा जाता या आजिः सङ्ग्रामस्तं जयतीति विप् / तं वेणदारिणं 'ततोऽनन्तरं अतिततान् चतुरङ्गबलेन प्राप्तविस्तारान् आतिनः सततगमनशीलान् तुदतीति क्विप् / भानां दीप्ततारानुरूपाणां शुक्रबृहस्पत्यादीनामाभेवाभा कान्तिर्यस्येत्युपमानपूर्वपदबहुव्रीही उत्तरपदलोपे च भामः / अभियो भयशून्यानिभानभिभवतीति क्विम् / अभीभाभिभूस्तादृशी या भा तेजस्तस्या भूराश्रयः / आर जगाम / अरिः शत्रुः / बलभद्र इत्यर्थः / अरीणां रीः संचरणम् / 'रीङ् गतौ इति धात्वनुसारात् / तस्या ईरो धूननं राति ददाति अरीररः॥ त्रिव्यञ्जनं यथा-. 'देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम् / दिवं दुदाव नादेन दाने दानवनन्दिनः // 260 // देवः सृष्टिस्थितिसंहारक्रीडारतः, दानवनन्दी हिरण्यकशिपुस्तस्य दानेऽवखण्डने यो नादो वक्षःकपाटपाटनकटकटाशब्दस्तेन दिवं स्वर्ग दुदाव किमेतदित्याकस्मिकसंभ्रमेणेत्युपतापयामास / जगत्कण्टकनिराकरणाद्देवानां नन्दन आनन्दकृत् / वेदनिन्दिनां च नोदनः प्रतिक्षेपकः / सामान्याभिप्रायेणैकवचनम् // द्विव्यञ्जनं यथा'भूरिभि रिभिर्भीराभूभारैरभिरेभिरे। भेरीरेभिभिराभरभीरुभिरिभैरिभाः // 261 // " भूरिभिर्बहुभिर्भारिभिः प्रकृतिसारभारवाहिभिरतिप्रमाणकायतया भुवो भारभूतैरन्तःकांस्यभाजनो निःस्वानो मेरी तद्वदेभिभिः / 'रेभृ शब्दे' इति धात्वनुसारात् / अभ्राभैः प्रथमोनतमेघकान्तिभिरिभैहस्तिभिर्भिय रान्ति प्रयच्छन्तीति मीरा इभाः प्रतिद्विपा अभिरेभिरे अभियुक्ताः // एकव्यञ्जनं यथा'न नोननुन्नो नुन्नेनो नाना नानानना ननु। . नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् // 262 / / '