________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 265 : नन्वन्येऽपि पदावृत्तिप्रकाराः किमिति नोदाहृता इत्यत आह-यमकानां हीति / भेदभक्तयोऽवान्तरप्रकारविच्छित्तयः स्थानास्थानपादभेदलक्षणा श्लोकावृत्तिः परमत्र नास्तीति यमकादपकषः॥ . .. . . " / उपमादिवियुक्तापि राजते काव्यपद्धतिः। यद्यनुप्रासलेशोऽपि हन्त तत्र निवेश्यते // 106 // प्रकरणान्तेऽनुप्रासव्युत्पादनप्रयोजनमाह-उपमादीति / अनुप्रासलेशोऽपीति / वर्णाद्यनुप्रासः // . कुण्डलादिवियुक्तापि कान्ता किमपि शोभते / कुङ्कमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रयुज्यते // 107 // श्रुतिवृत्त्यनुप्रासौ तु संदर्भव्यापकावेव प्रशस्तावित्युदाहरणव्याजेनाह-कुण्डलादीति // श्रुतिवर्णानुप्रासावेकविधौ कुन्तलेषु गौडेषु / .. पदयोर्निरनुप्रासो द्वधा त्रेधा च लाटेषु // 108 // एतदेव खण्डसरखतीषु कविषु न तथा काव्यसिद्धिरिति दर्शयन्द्रढयतिश्रुतिवर्णानुप्रासाविति॥ 'वर्णस्थानस्वगकारगतिबन्धान्प्रतीहयः। नियमस्तद्बुधैः पोढा चित्रमित्यभिधीयते // 109 // क्रमप्राप्तं चित्रलक्षणमवतारयति-वर्णेति / चित्रमालेख्यं तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः। तदसत् / ध्वनेः प्राधान्यानङ्गीकाराप्रतीयमानमात्राभावस्य क्वचिदप्यसंभवात् / यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न / अव्यापकत्वात् / अतो वर्णादिनियमेन प्रवृत्तमाश्चर्यकारितया चित्रमियेव युक्तम् / वर्णा व्यञ्जनानि / स्थानं कण्ठादि / खरा अकारादयः / आकारः पद्माद्यकृित्युन्मुद्रणम् / गतिः पठितिभङ्गविशेषः / बन्धो विविडितिप्रभृतिः // वर्णशब्देन चात्र खराणां पृथनिर्देशाव्यञ्जनान्येव प्रगृह्यन्ते / तत्र वर्णचित्रेषु चतुर्व्यञ्जनं यथा 'जजोजोजाजिजिज्जाजी तं ततोऽतिततातितुत् / / भाभोऽभीभाभिभूभाभूरारारिररिरीररः // 259 //