________________ 264 काव्यमाला / - अत्र पादापेक्षया व्यवहितत्वमर्धापेक्षया पुनरव्यवहितत्वं भवति // एवं श्लोकार्धाभ्यासो व्यवहिताव्यवहितभेद एव भवतीत्याह-योऽपीति // द्विभागाभ्यासस्तु व्यवहित एव खदते / यथा 'श्रद्धायनौ यदि स्यातां मेधया किं प्रयोजनम् / तावुभौ यदि न स्यातां मेधया किं प्रयोजनम् // 255 // " श्रद्धायनाविति / अत्र यदि स्यातामिति पादभागेन सह पदावृत्तिस्त्रिभागा वृत्तिर्भवति // पदाभ्यासः पुनरव्यवहितो व्यवहितश्च दृश्यते। तयोरव्यवहितो यथा'सन्तः शृणुध्वं हृदये निधद्धमुत्क्षिप्य बाहुं परिरारटीमि / न सुभ्रुवां तुल्यमिहास्ति रम्यं न सुध्रुवां तुल्यमिहास्ति रम्यम् 256 व्यवहितो यथा'मुखेन लक्ष्मीर्जयति फुल्लपङ्कजचारुणा / दक्षिणेन करेणापि फुल्लपङ्कजचारुणा // 257 // मुखेनेति / फुल्लपङ्कजमिव चारु फुल्लेन पङ्कजेन चारुरिति यद्यपि वृत्त्यर्थी भिद्येते, तथापि पदानामभिन्नार्थत्वादुदाहरणता // इवाद्यावृत्तयोऽपि चात्रैव द्रष्टव्याः / यथा'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च / सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लमा प्रिया // 258 // ' अर्थाभेद इति नार्थशब्दोऽभिधेयवचनः किंतु शब्दप्रतिपाद्यमात्रवचन इत्याशयवानाह-इवादीति // यमकानां हि यावन्त्यो वर्ण्यन्ते भेदभक्तयः / .: अनुप्रासस्य लाटानां भिदास्तावन्त्य एव हि // 105 //