________________ 2 परिच्छेदः। सरखतीकण्ठाभरणम् / 263 'दशरश्मिशतोपमद्युति यशसा दिक्षु दशखपि श्रुतम् / दशपूर्वरथं यमाख्यया दशकण्ठारिगुरु विदुर्बुधाः // 251 // अत्रानेकधा दशशब्द आवर्तते / / शतधृतिर्ब्रह्मा तस्य भुवनभूतमम्भोरुद पद्मं तस्य, क्षोणी पृथ्वी तद्रूपा या नौस्तरिस्तस्याः कूपदण्डः गुगवृक्षः / दशखिति / एको दशशब्दो व्यस्तः, अन्ये त्रयः समस्ताः // अव्यवहितेऽपि द्वैगुण्यार्देन विरोधः / यथा'वस्त्रायन्ते नदीना सितकुसुमधराः शक्रसंकाशकाशाः काशाभा भान्ति तासां नवपुलिनचराः श्रीनदीहंसहंसाः। हंसाभाम्भोदमुक्तक्षरदमृतरुचिर्मेदिनीचन्द्रचन्द्र श्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः // 252 // " ननु व्यवहित एव किं गुणनादिभेदो नेत्याह-अव्यवहितेऽपीति / वस्त्रायन्त इत्यादौ काशपदपरिहारेणोदाहरणम् / तत्र हि प्रथमः काशशब्दो भिन्नार्थ एव // .. व्यवहिताव्यवहितभेदेऽपि दृश्यते / यथा'धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापानरा निस्तरन्ति / धनेभ्यो हि कश्चित्सुहृन्नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् 253' यत्र व्यवहिताव्यवहितयोरेकवाक्यानुप्रवेशोऽस्ति तत्रापि गुणनाभेद उदाहरणीयः / दृश्यत इत्यनेन यद्वयवहिते भूयसी गुणना महाकविप्रबन्धेषु प्रतीयते न तद्वदव्यवहितेऽपीसि पूर्व व्यवहितमात्रे गुणनादिकमुपन्यस्तमिति तात्पर्यम् / धनैरिति / अत्र धनपदव्यवधानेन बह्रीं गुणनामवलम्बमानमेव चतुर्थपादे त्वव्यवहिता त्वनुप्रासेऽपि प्रविष्टमिति भवति व्यवहिताव्यवहितभेदता / सोऽयं पदाभ्यासो दर्शितः॥. .. योऽपि चार्धाभ्यासः सोऽपि व्यवहिताव्यवहितभेद एव / यथा'यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः / यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः // 25 // '