________________ 262 काव्यमाला। ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः ___ सर्वस्तेषु गुणैगृहीतहृदयो लोकः कुतो वर्तते // 218 // अत्र वच्मीति सन्तीत्येतयोरनेकगुणावृत्तिः॥ अनेकगुणा इति / आवृत्तिद्वैगुण्यादिनानेकगुणत्वम् , न च गुणनायामियत्तावधारणकारणमस्तीत्यभिसंधाय तस्येयत्ता न शक्यते कर्तुमिति पूर्वमुक्तम् / खेषामात्मीयानां मध्ये यः कश्चिद्दोषस्तत्र दमा दण्डप्रकारा न दृश्यन्त इति // समस्त एकगुणो यथा'चन्द्रानन चन्द्रदिनं मृगलोचन मृगशिरश्च नक्षत्रम् / तिथिरतिथिप्रियदशमी परतस्त्वेकादशी प्रहरात् // 249 // नन्विह तिथिरित्यसमस्तम् / न केवलमसमस्तं भिन्नार्थतया लाटीयानुप्रासेऽपि न संगच्छते / संगते च केनचित्पदानुप्रासेन / न च लाटीयानुप्रासो वा नामानुपासो वा पदानुप्रासाद्भिद्यत इति // / यद्यप्येकपरिहाराकारोदाहरणद्वयमुचितमेव तथापि किंचिद्विशेषं विवक्षन्नाक्षिप्य समाधत्ते-नन्विति / मा भूदत्रासमासोऽन्यथापि नेदमुदाहरणमिह संगतमित्याह-न केवलमिति / तत्किमनुप्रास एवायं न भवतीति पृच्छतिकेन तीति / उत्तरम्--पदानुप्रासेनेति। पदानुप्रासेनार्थभेदाभेदौ विवक्षितौ / किंतु पदाश्रयेणावृत्तिमात्रं पदानुप्रासावृत्तिश्च लाटानुप्रासेऽप्यस्तीति संगत्यात्रेदमुदाहृतमित्यर्थः // समस्तोऽनेकगुणो यथा'ब्रह्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः। . ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽनिदण्डः श्रेयस्वैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः // 250 // अत्रानेकशो दण्ड इत्यस्यावृत्तिः / आभ्यां व्यस्तसमस्तभेदोऽपि व्याख्यातः / यथा-- .