________________ 2 परिच्छेदः।] सरखतीकण्ठामरणम् / अस्यापि लक्षणेनैवोक्तोऽर्थः // ... 'खापेक्षया व्यस्तोऽन्यापेक्षया च समस्तः, द्वितीयो व्यस्तोऽपरः समस्त इति स द्वितीयोभयशब्दवाच्यः / सोऽपि द्विधा प्रतिपादमन्ताद्योगर्भ इवानुप्रासविन्यासात् / तयोः प्रथमश्चक्रवालं यथा -- ... 'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः / वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः // 245 // अत्र तिमिरवल्लभपूर्वाशेतिशब्दास्तिमिरादिशब्दापक्षया व्यस्ताः यथा-खपूर्वोत्तरपदापेक्षया च समस्ताः पदान्ताद्योर्विनिवेशिता इति यथोक्तलक्षणानुगमाल्लाटीयानुप्रासोऽयमव्यवहितो व्यस्तसमस्तश्चक्रवालमित्युच्यते // . . -- द्वितीयमुभयं विवेचयति-स्वापेक्षयेति / तिमिरान्धाश्चक्रवाकाः / यथ श्रुतिद्विरुक्तः पूर्वः पूर्वेणोत्तरश्चोत्तरेण समस्त इति पूर्वस्माद्विशेषः // . .... - एतेन पादमध्येऽनुप्रासविन्यासाद्गर्भोऽपि व्याख्यातः / यथा'समाधवा माधवदत्तदृष्टिः सकौतुका कौतुकमन्दिरे स्तात् / सविभ्रमा विभ्रमदायिनी वः सपङ्कजा पङ्कजलोचना श्रीः // 246 // ' सकौतुका कृतकङ्कणबन्धादिपरिणयमङ्गला // . व्यवहितभेदेषु व्यस्तो यथा'प्रकाशो यशसा देवः प्रकाशो महसा रविः / दु सहो विद्विषां खामी दुःसहस्तमसां च सः / / 247 // " तदेतन्नातिदुर्बोधमिति न व्याक्रियते // सोऽयमेकगुणो व्यस्तश्च लाटीयानुप्रासो व्यवहित इत्युच्यते / व्यस्तश्वानेकगुणो यथा किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि क्च्मीशं - दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः / /