________________ काव्यसाला। समुप्फुन्दन्तो समभिक्रामन् / ननु जसेण धीरेणः गरुइआइ वि इ रवेण अ इति यदपञ्चके विभक्त्या तदुत्तरयोश्चकारद्वयेन च व्यवधानात्कथमव्यवहितभेद उदाह्रियत इत्याह-अत्रेति / अव्ययानामित्युपलक्षणम् / द्योतकत्वादिति विभक्तिसाधारणो हेतुः / पञ्चकप्रातिपदिकार्थत्वपक्षे विभक्तिोतिकैव / शाकल्योऽपि अव्ययवाचकत्ववादी / सोऽप्यसत्त्वार्थानामिवादीनां खातन्त्र्येण वाचकत्वं न मन्यते। यतो न पृथक्पदत्वमनुशिष्टवान् / तथा च द्योतकानां परशक्तिसहकारित्वेन तदनुप्रवेशात्खाङ्गमव्यवधायकमिति न्यायात् / ननु किमत्र क्लिष्टकल्पनया / अस्त्यव्यवहितोदाहरणमप्यन्यदपीति शङ्कते-यद्येवमिति / अत्र पूर्वार्धवर्तिद्वयमुदाहरणमुत्तरार्धवर्तिनो द्वयस्य पूर्वतुल्यत्वात् / परिहरति-अस्तीति / अनन्वयमात्रमत्रोदाहरणम् / तत्र चावश्यभेदकल्पनया विशेषणविशेप्यभावी वाच्यस्तथा च गौणी नाम द्विरुक्तिः स्यादिति संकरशङ्कनायोदाहृतमिति सिद्धान्ततात्पर्यसंक्षेपः // ... समस्तो यथा'अपहस्तितान्यकिसलय किसलयशोभं विलोकयाशोकम् / सखि विजिता परसुमनःसुमनः सुभगं च मधुतिलकम् / / 242 // अत्र 'किसलय किसलय' इति, 'सुमनः सुमनः' इति च समस्तानामेवाव्यधानादयं लाटीयोऽनुप्रासोऽव्यवहितसमस्तः पूर्वः पुनरव्यवहितव्यस्त इत्युच्यते // पूर्वः पुनरिति / समस्तानन्तरं व्यस्तविवरणं प्रतिपत्तिसौकर्यार्थम् // उभयस्तु द्विधा-प्रथमः समस्तोऽपरो व्यस्तः। द्वितीयो व्यस्तोऽपरः समस्त इति च / तयोः प्रथमो यथा.. 'जितलाटाङ्गनावकं वकं तस्या मृगीदृशः / कस्य न क्षोभजनकं जनकं पुष्पधन्वनः // 243 // ' , तदिदं लक्षणेनैव व्याख्यातम् // द्वितीयो यथा 'नलिनी नलिनीनाथकरसंनतिसंगमात् / विकचा विकचास्यानां कान्तानां हरति श्रियम् // 244 //