________________ 258 काव्यमाला। विस्मयसंभ्रमेण यथा.... 'अहो रूपमहो रूपमहो मुखमहो मुखम् / अहो मध्यमहो मध्यमस्याः सारङ्गचक्षुषः // 238 // ' एतेषु समस्तेष्वपि संभ्रमेषु यावद्वोधमिति द्विरुक्तिः / / एवं त्रिरुक्तिरपि द्रष्टव्या यथा'जय जय जय श्रीमन्मोज प्रभाति विभावरी वद वद वद श्रव्यं विद्वन्निदं ह्यवधीयते / शृणु शृणु शृणु त्वद्वत्सूर्योऽनुरज्यति मण्डलं __ नहि नहि नहि ममार्तण्डः क्षणेन विरज्यते // 239 // ' संभ्रमेषु यावद्बोधमिति यावच्छब्दार्थमाविष्कुर्वाणः पूर्वोक्तमभिप्रेत्याह-एवं त्रिरुक्तिरपीति / उपलक्षणं चेदम् / चतुरादिद्विरुक्तिरदण्डवारितैव // क्रियासमभिहारश्च क्रियाभ्यासश्च यः पुरा / युक्ताबुदाहृतः सोऽपि नामानुप्रास इष्यते // 10 // समभिहारो भृशत्वम् // जायते न च दोषाय काव्येऽलंकारसंकरः। विभूषयति हारोऽपि स्तनौ ग्रीवां मृगीदृशाम् // 101 // ननु वाक्यार्थप्रयुक्त्यैव काव्यस्य सनाथीकरणात्किमनुप्रासेनेत्यत आह-जायते न चेति / उदाहरणेनालंकार्यसंकरवदलंकारसंकरोऽपि लोकप्रसिद्ध एव शोभाहेतुरित्यभिमतमिति // अर्थाभेदे पदावृत्तिः प्रवृत्त्या भिन्नयेह या। . स सूरिभिरनुप्रासो लाटीय इति गीयते // 102 // क्रमप्राप्तं लाटानुप्रासं लक्षयति-अर्थाभेदे इति / लाटजनवल्लभोऽनुप्रासो लाटानुप्रासः। अर्थभेदे कथं न पुनरुक्तिदोष इत्यत उक्तम्-प्रवृत्त्या भिन्नयेति / तात्पर्यभेदेनेत्यर्थः / अत एव यमकाद्भेदः॥ .