________________ . .. 1 2 परिच्छेदः / / सरखतीकण्ठाभरणम् / भूषावेषोपकरणगणप्रापणव्यापृतानां .... नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् // 235 // ' - संभ्रमेणेति / भयसंवेगादरात्मकः संभ्रमः संवेगस्त्वरा / सैव प्रकृतोदाहरणे द्विरुक्तिं प्रयोजयति // ..... हर्षावेगविस्मयादयोऽपि संभ्रमस्योपाधयो भवन्ति / तेषु हर्षसंभ्रमण यथा- . .. 'रुरुधुः 'कौतुकोत्तालास्ततस्ताममरावतीम् / कार्जुनः कार्जुन इति ब्रुवन्त्यो नाकयोषितः / / 236 // ' ननु हर्षादीनां महाकविप्रबन्धेषु द्विरुक्तिरुपलभ्यते / सा कथमुपग्राह्येत्यत आह-हर्षेति / हर्षादयोऽपि संभ्रमप्रयोजकास्तैरसाधारणतामापरवच्छिंद्यमानः संभ्रमोऽन्योन्यो भवति ने च संभ्रमतां जहातीति संभ्रमद्विरुक्तिप्रकार एवायमित्यर्थः // . आवेगसंभ्रमेण यथा'कञ्चकं कञ्चुकं मुञ्च हारं हारं परित्यज / हा हा दहति दावाग्निर्वस्त्रं वस्त्रमपाकुरु // 237 // ____ अत्र मुञ्च परित्यज दहति अपाकुरु इति क्रियापदेष्वावेगसंभ्रमान्न द्विरुक्तिः / तथाहि-अरण्यानीप्रवेशे विजिगीषुद्विषां योषिद्दावाग्मिर्सअमावेगात्कयाप्येवमुच्यते, तत्र प्रथमं कञ्चक एवावेगसंभ्रमः / स ह्यागते दावामावुत्तारयितुमशक्यः / ततस्तव्यासङ्गहेतौ हारे, अनन्तरं परापतितदावामिदीप्ते वाससीति // निगूढगंम्भीर उद्वेग आवेगः / ननु कञ्चकं कञ्चकमितिवन्मुञ्चेत्यादिकमावेगसंभ्रमप्रभवमेव तत्कथं न द्विरुच्यत इत्यत आह-अत्रेति / कञ्चुकस्य हारेण हारस्योत्तरीयवाससा व्यासङ्गसंभावना संभ्रमहेतुः // 17 स० क.