________________ 256 काव्यमाला। . सिद्धे हि वस्तुनि पौनःपुन्यप्रतीतिः क्रियोपाधित एव न खरूपेण / ननु णमुलैवाभीक्ष्ण्याभिधानाकि द्विरुक्तिः करिष्यत इत्यत आह-सोऽयमिति / न चाभीक्ष्ण्यं णमुलो वाच्यम् / क्त्वार्थे तस्याभिधानात् / द्विरुक्तिसहितस्यैव तस्यानुपरतिव्यञ्जकत्वात् / खरूपार्थाभ्यामन्तरतमशब्दद्वयरूप आदेशो वा द्विरुच्चारणं वा द्विरुक्तिशब्दार्थः // क्रियापदाभीक्ष्ण्याद्विरुक्तौ तु पुनरुक्तेरपि पुनरुक्तिः / यथा'जयति जयति देवः श्यामकण्ठः पिनाकी जयति जयति देवी लोकमाता भवानी / जयति जयति धन्यः सोऽपि भक्तस्तयोर्यः किमपरमिह धन्यं वर्ण्यते तावदेव // 233 // ' न चावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ किंतु यावद्भिरभिमतोऽर्थः प्रतीयते तावन्तोऽभीक्ष्ण्यशब्दाः प्रयोक्तव्यास्ते नाव्ययकृत्सु दृश्यन्ते किंतु तिङ्पदेष्वेवेत्याह-क्रियापदेति / यद्यप्येकवाक्यार्थसंगत्या क्रियापदस्य द्वयमेवोच्चारणं तथापि काव्यापेक्षया बाहुल्यमवसेयम् // आदिग्रहणेन निमूलसंभ्रमादयः परिगृह्यन्ते / तेषु निमूलादिर्यथा'निमूलकाषं कषति खान्तमन्तःस्मरज्वरे / लाजस्फोटं स्फुटन्त्याशु हृदये हारयष्टयः // 234 // आदिग्रहणेनेति / तत्तदितरप्रकरणप्रापितानां द्विरुक्तिप्रकाराणामादिपदेनोपग्रहो विधेयः / तद्यथा-'अर्वागर्वाग्बलवदुपलग्रन्थयः क्षेत्रशैला दूरे दूरे मणिमयदृषन्मेखलो रत्नसानुः / आरादारान्निधिरयमपां यद्दवीयो दवीयान्दुग्धाम्भोधिस्तदयमसदृक्छिल्प एवादिशिल्पी // ' अत्रानुपू] द्वे भवत इति द्विरुक्तिः / एवं खार्थेऽवधार्यमाणे इत्यादयोऽपि द्विरुक्तिप्रकाराः स्वयमवसेया इत्याशयवानुपलक्षणतया किंचिदुदाहरति-निमूलकाषमिति / 'कषादिषु यथाविध्यनुप्रयोगः' इति तस्मिन्नेव प्रयुक्ते द्विरुक्तिसिद्धिः // संभ्रमेण यथा'अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु गङ्गा गङ्गोरग उरग इत्याकुलाः संभ्रमेण /