________________ 2 परिच्छेदः।] सरखतीकण्ठाभरणम् / 255 - सेयं द्रव्यवीप्सा नाम द्विरुक्तिः / एवं गुणजातिक्रियावीप्सायामपि द्रष्टव्यम् // - वीप्सेति / नानार्थानां युगपदेककेन पदेन केनचिद्वक्तुर्व्याप्तिविवक्षा वीप्सा / स प्रयोक्तृधर्मो द्विरुक्त्या व्यज्यते / अत एव या काचिदर्थसामर्थ्याकृष्टां द्विरुक्तिः सा सप्तवर्णादिवन्नामद्विरुक्तिसमाख्यया प्रतिपाद्यते। शैले शैल इति। अत्र किंचिदेकमसाधारणगुणाश्रयं विवक्षन् तदितरस्य तज्जातीयस्य गुणसंस्पर्शमसहमानोऽप्रस्तुतमेव शैलादिकं प्रस्तुतवान् / रोहणादिव्यतिरिक्तासु व्यक्तिषु माणिक्याद्यभावगुणव्याप्तियुगपदेव विवक्षिता / शब्दादुपसर्जनतया प्रतीयमानः सिद्धखभावः पदार्थो गुण इत्युच्यते / एवं क्रिययापि व्याप्तिरवसेया / सेयं द्रव्यवीप्सेति / शैलादीनां द्रव्याणामेकेन गुणादिना व्याप्तुमिच्छेत्यर्थः // 'प्रकारे गुणवचनस्य 8 / 1 / 12' इत्यादिरपि वीप्साप्रकार एव / यथा-- मानिनीजनविलोचनपातानुष्मबाष्पकलुषान्प्रतिगृह्णन् / मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः // 23 // . प्रकारे गुणवचनस्येति / प्रकारः सादृश्यं तत्पूर्णगुणेन न्यूनगुणस्य साधारणगुणान्वये भवति / एवं चास्ति समानशब्दाभिधेयत्वं च व्याप्तिः / इयांस्तु विशेषो यदेकत्र सिद्धस्यान्यत्र प्रतिबिम्बनं सादृश्यं, शुद्धवीप्सायां तु युगपदेकस्य नानापदार्थसंबन्ध इति / सोऽयं वीप्साप्रकारशब्दार्थः / अत एव 'प्रकारे गुणवचनस्य 8 / 1 / 12' इति पृथक्सूत्रितम्। इह तु वीप्सापदेनैवायमर्थ उपग्राह्य इत्यभिप्रायः / मन्दं मन्दमिवोदित इति क्रियाविशेषणमुपमितम् / एवं भीत भीत इति कर्तृविशेषणमपि / सादृश्यलक्षणगुणोत्प्रेक्षायामिवशब्दः // ___ आभीक्ष्ण्येन यथा 'श्लेषं श्लेषं मृगदृशा दत्तमाननपङ्कजम् / मया मुकुलिताक्षेण पायं पायमरम्यत // 232 // . सोऽयमाभीक्ष्ण्ये णमुल / स चानुप्रयुज्यत इति पुनरुक्तिः // आभीक्ष्ण्येनेति। 'नित्यवीप्सयोः८।१।४' इत्यनेन नित्यत्वमाभीक्ष्ण्यमुक्तम् / यां किल क्रियां कर्ता प्राधान्येनानुपरत्या च कर्तुमिच्छति तद्रूपमाभीक्ष्ण्यम् / अत एव तिङव्ययकृतां च द्विरुक्तिरियमसाधारणी / उभयत्रैव क्रियाप्राधान्यप्रतीतेः।