________________ 254 काव्यमाला / प्रासादौ नामद्विरुक्तिरतिव्यापिका तथाप्यर्थोपक्षेपोपनिपातिनी सह विवक्षिता। अर्थो द्विविधः-आभिधानिकः, उपाधिश्च / आद्यो गोणमुख्यभेदेन द्विप्रकारः, द्वितीयोऽपि वीप्साभीक्ष्ण्यादिरनेकविधः / द्विरुक्तिरपि नाम शरीरसंपादिका नाम्नः सतश्चेति द्वयी बोद्धव्या। अत एव द्विरुक्तस्यैवाभिधाशक्तियोगात्स्वभावत इत्युक्तम् // सा खभावतो यथा- . .. . 'कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः / प्रातर्गुलुगुलायन्ते गजा इव घनाघनाः // 228 // ..... अत्र कलकलमित्यादिषु स्वाभाविकी पुनरुक्तिरुपदिश्यते // कुर्वन्त इति / चलाचलाश्चञ्चलाः / चलतेरचूप्रत्ययेऽभ्यासस्याकि रूपम् / गुलु इत्यव्यक्तानुकरणस्य डाचि द्विर्वचने च गुलुगुलेति नामसिद्धिः / अत्र कलकलादिपदानामर्थवशायातद्विरुक्तिशरीराणां खभावत एव यथोक्तरूपव्यवस्थितिः // गौण्या यथा'अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि / इति न भजते वस्तु प्रायः परस्परसंकरं ___ तदियमबला कान्तिं धत्ते कुतः सकलात्मिकाम् // 229 // ' अत्रामृतममृतमित्यादिष्वभेदेऽपि भेदोपचारेण विशेषणविशेष्यभावः सामान्यविशेषभावाद्भवन्पुनरुक्तिवद्भासते // - अमृतमिति / अत्र द्वितीयान्तानाममृतादिपदानां द्विरुक्तिदोषेण तात्पर्यापर्यवसानादमृतादिगुणपरत्वे कल्पनीयेऽपि निकृष्टगुणपराणां सामानाधिकरण्यानुपपत्तेस्तत्तदसाधारणगुणोपबृंहितामृतादिनिष्ठानामाद्यपदोपात्तसामान्यापेक्षो विशेष्यभावश्च विशेषणत्वं च निर्वहति / न च पर्यायनिवेशेऽर्थान्तरसंक्रमितवाच्यता संभवतीति पूर्वाचार्याः / सेयं गौणार्थपरवशा नाम द्विरुक्तिः // वीप्सा यथा'शैले शैले न माणिक्यं मौक्तिकं न गजे गजे। देशे देशे न विद्वांसश्चन्दनं न वने वने // 230 // '