________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 253 गृहीतमुको यथेति / पुंभागः पुंगज इति प्रसिद्धः / केसरो बकुलः। भावना वासना / सुरभिर्वसन्तः / नानामधुपानलालसानामितस्ततः षट्चरणानां चरणं भ्रमणम् / अत्र चक्रवालक्रमो व्यक्त एव / आवृत्त्याधिक्याभावाच गृहीतमात्रस्यैव मोचनम् // पुनरुक्तिमान्यथा'धूमाइ धूमकलसे जलइ जलन्ता बुहत्थजीआबन्धे / पडिरअपडिउण्णदिसे रसइ रसन्तिसिहरे धणुम्मि णहअलम् // 227 // ' [धूमायते धूमकलुषे ज्वलति ज्वलदात्तहस्तजीवाबन्धे / प्रतिरवप्रतिपूर्णदिशि रसति रसच्छिखरे धनुषि नभस्तलम् // ] अत्र धूमादीनां पुनर्वचनात्पदानुप्रासोऽयं पुनरुक्तिमानुच्यते // पुनरुक्तिमानिति / वाच्याभेदात्पुनरुक्तिः सा यस्मिन्नावृत्तिलक्षणेनानुप्रासे स पुनरुक्तिमान् / तात्पर्यभेदाच न दोषः / धूमज्वलनरसनानामाकाशदेशव्यापितया धनुःप्रकर्षद्वारेण रामभद्रगतोत्साहशक्तिध्वननात्प्रकृतवीररसपोषः / अत्र धूमधूमेत्यादिना वाच्यभेदः॥ ननु वर्णावृत्तिरनुप्राससामान्यलक्षणयुक्ता न चासौ पदाद्यावृत्तावस्तीत्यत आह वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च / पूर्वानुभवसंस्कारबोधिनी पद्यदरता // 97 // वर्णावृत्तिरिति / समुदायावृत्तिरपि वर्णावृत्तिरेव / नहि वर्णातिरिक्तः समुदायो नाम / इयांस्तु विशेषो यत्पूर्वजातीयवृत्तानुसंधानमलंकारतां प्रयोजयति। * तत्र च कार्यानुमेयः समयसंनिकर्षविशेष एव प्रयोजक इति / तदिदं दिङ्मात्रमुक्तम् // लाटानुप्रासवर्गस्य यावद्वा लक्ष्यते गतिः / पदानुप्रासवर्गेऽपि तावदेव प्रपश्यते // 98 // अन्येऽपि पदानुप्रासप्रकाराः खयमुत्प्रेक्षितव्या इत्याह-लाटेति / गतिः प्रकारः॥ स्वभावतश्च गौण्या च वीप्साभीक्ष्ण्यादिभिश्च सा / नाम्ना द्विरुक्तिभिर्वाक्ये तदनुप्रास उच्यते // 99 // .. क्रमप्राप्तं नामद्विरुक्त्यनुप्रासं विभजते-स्वभावत इति / यद्यपि पदानु