________________ 252 काव्यमाला। . जोण्हा उपहा रिसो रसो इत्यादिका प्रतिपादं मध्यान्तस्थाननियमेनावृत्तिः / क्षतोऽर्पितः क्षारः / जलार्दा जला वस्त्रे // मिथुनं यथा'पुरः पाराऽपारातटभुवि विहारः पुरवरं ततः सिन्धुः सिन्धुः फणिपतिवनं पावनमतः / तदने तूदग्रो गिरिरिति गिरिस्तस्य पुरतो विशाला शालाभिर्ललितललनाभिर्विजयते // 224 // .. तदेतत्प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोविन्यासान्मिथुनम् / / पाराभिधाना नदी / अपारा पाररहिता / सिन्धु दी सिन्धुनामा / विशाला उज्जयिनी। शालाभिरितीत्थंभूतलक्षणे तृतीया / अत्र पारापारेति सिन्धुः सिन्धुरिति दने दन इति शालाशालेति क्रमेण प्रथमादिपादेषु द्वयोरेवानुप्रासयोर्विन्यासः। यद्यपि तृतीयपादे गिरिगिरीति द्वितीयमपि मिथुनं संभवति तथापि वर्णद्वयव्यवधानादनुल्लेखीत्युपेक्षितवान् // मिथुनावली यथा'शिरसि शरभः क्रोडे कोडः करी करटे रट नुरसि च रुरुर्मर्मण्येणः शिखी मुखरो मुखे / कविरपि हृदि हादी दूराद्धरिर्द्विपजिद्धतो ___ धनुषि लघुता लक्ष्येऽपूर्वो जयोऽस्य यशस्विनः // 225 // सेयं द्वयोः पादयोर्निरन्तरमावृत्तिमिथुनावलीत्युच्यते // शिरसीति / शरभोऽष्टापदः / क्रोडो वराहः / रुरुर्बहुशृङ्गो मृगः / हरिः सिंहः / खरभागविवक्षायां व्यञ्जनयुगलावृत्तिमिथुनम् / तदेवावृत्तिभूना मिथुनावली शरशरेति क्रोडकोडेति करकरेति दवदवेत्यादिना क्रमेण सुप्रत्यभिज्ञानैवं // गृहीतमुक्तो यथा ''नागनागकेसरकेसरपरिवासवासनासुरभिः। सुरभिर्मधुरमधुप्रियषट्चरणाचरणवान्प्राप्तः // 226 // सोऽयं चक्रवालवदनुप्रासो गृहीतमुक्त इत्युच्यते //